पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/९०

पुटमेतत् सुपुष्टितम्
78
अलङ्कारमणिहारे

छेदः । अपां समूहः आपं आपं यातं गतं यस्मात्स तथोक्तः विगतसलिलनिवह इत्यर्थः । न स्यात् सदाऽपि सलिलपूर्णत्त्वादिति भावः । पक्षे न अपयातः पेन पकारेण यातः पयातः न पयातः अपयातः न स्यात् । पयोनिधिराट्छब्दस्य पकारघटितत्वादित्यर्थः । शब्दार्थयोस्तादात्म्यम् । यः पयोनिधिराट् अपराजिततां अपराभूततां, निर्गताः अहिताः यस्य सः निरहितः तस्य भावः निरहितता । तां निस्सपत्नतां च प्राप्तस्सन् अधिराट् राजाधिराजो भवति । स कथमिव अपयातः स्यादिति योजना । पक्षे पयोनिधिराट्छब्दः अपराजिततां पवर्णभासुरत्वाभावं निरहिततां निवर्णराहित्यं च प्राप्तः योधिराट् भवति योधिराडिति निष्पद्यत इत्यर्थः । अत्राप्युत्तरार्धवाक्यार्थेन पूर्वार्धवाक्यार्थस्य समर्थनम् । वक्ष्यमाणपदार्थहेतुकस्यापीदमुदाहरणं भविष्यति ॥

 यथावा--

 इन्द्राधिकस्त्वदीयस्तन्द्राधिक एव भवति परकीयः । कथमनयोरैक्यं स्यादभिदधति तयोरितस्ततो भेदम् ॥ १५५१ ॥

 इन्द्राधिकः इन्द्रादप्यतिशयितश्रीः । तन्द्राधिकः अधिकतन्द्रः अलस इत्यर्थः । तयोः त्वदीयपरकीययोः इतस्ततः तत्रतत्र भेदं, पक्षे तयोः इन्द्रधिकतन्द्राधिकशब्दयोः इतः इकारेण ततः तकारेण च भेदं वैलक्षण्यं अभिदधति । जना इति शेषः । तयोस्तावानेव भेदो नान्य इति भावः । अत्र अभिदधतीत्यादिवाक्यार्थेन उत्तरेण पूर्ववाक्यार्थसमर्थनम् । भगवदीयान्यदी-