पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१२६

पुटमेतत् सुपुष्टितम्
118
अलंकारमणिहारे

तः । उत्तुङ्गशृङ्गसंगत उचितं भूभृद्वरोऽयमहिशैलः ॥ २१७७ ॥

 नक्षत्रपथं अन्तरिक्षं उल्लङ्घत इति तथोक्तः । अन्यत्र क्षत्रधर्मानतिवर्तीत्यर्थः । नवया घनराज्या जलदश्रेण्या अभिषेकं अभिगमितः । अन्यत्र नवं प्रत्यग्रं घनं सान्द्रं यत् राज्यं तस्मिन् अभिषेकं अभिगमितः । उत्तुङ्गैः शृङ्गैः शिखरैः सानुभिर्वा उत्तुङ्गेन शृङ्गेण प्राधान्येन प्रभुत्वेन वा संगतः संबन्द्धः । ‘शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके । विषाणोत्कर्षयोः' इति मेदिनी । ‘शृङ्गं प्राधान्यसान्वोश्च' इत्यमरश्च । भूभृद्वरः राजवरेण्यः गिरिश्रेष्ठश्च । अत्र काव्यलिङ्गसमालंकारयोश्श्लेषानुप्राणितयोरेकवाचकानुप्रवेशः ॥

 यथावा--

 स्वनयनजयिभिर्हरिधृतवैदूर्यैर्निर्जितोऽथ मार्जारः । मारो यदि जातु स्यात्तदाऽपि हरिनीलविग्रहजितस्स्यात् ॥ २१७८ ॥

 मार्जारः बिडालः मार्जारशब्दश्च स्वनयनजयिभिः निजलोचनरुचिविजित्वरैरिति यावत् हरिधृतैः भगवता भूषणतया विधृतैः वैदूर्येः वालवायजमणिभिः । विदूरात्प्रभवन्ति वैदूर्याणीति विग्रहः । ‘प्रभवति’ इत्यधिकारे ‘विदूराञ्ञ्यः’ इति ञ्यः । ‘वैदूर्यं वालवायजम्' इति विश्वः । अत्र विदूरशब्दो वालवायस्यादेशः पर्यायो वा तत्रोपचरितो वा । तेन वालवायाद्गिरेरसौ प्रभवति न विदूरान्नगरात् तत्र तु संस्क्रियत इत्याक्षेपः प्रत्युक्तः । यदुक्तं--