पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१४

पुटमेतत् सुपुष्टितम्
6
अलंकारमणिहारे

अथ प्रेयोलंकारसरः (१०६)


यदि भावरसाङ्गत्वं भावस्य प्रेय इष्यते ।

 भावस्य भावाङ्गत्वे च प्रेयोऽलंकारो द्विप्रकारः । अयमेव भावालंकार इति कैश्चिद्व्यवह्रियते ॥

 तत्र भावस्य भावाङ्गत्वे यथा--

 सा मनसि संनिधत्तां तामरसनिकेतना रुचां विततिः । प्रत्यष्ठापि ययैव हि नित्यं श्रीवेंकटेश्वरैश्वर्यम् ॥ २००७ ॥

 अत्र श्रीविषयकरतिभावस्य श्रीनिवासविषयकरतिभावोऽङ्गम् ॥

 भावस्य रसाङ्गत्वे यथा--

 वाणीपतिसनकादिमवाङ्मनसाविषयभूम्नि शुभधाम्नि । व्योम्नि परमे रमेश्वर वतंसयिष्ये कदा तव पदाब्जम् ॥ २००८ ॥

 अत्र कविगतशान्तरसस्य कदेति सूचितश्चिन्ताख्यो व्यभिचारिभावोऽङ्गम् ॥

इत्यलंकारमणिहारे प्रेयस्सरष्षडुत्तरशततमः.


अथोर्जस्विसरः (१०७)


 भावाङ्गतां रसाभासो भावाभासोऽथवाऽश्नुते ।