पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१६३

पुटमेतत् सुपुष्टितम्
155
संकरसरः (१२१)

 यथावा--

 दरसंयोगं प्राप्तो जनस्त्वदीयो भवत्यमृतदोग्धा । युक्तमिदं त्वद्विमुखोऽपीदृग्भवतीति नाथ चित्रमिदम् ॥ २२१५ ॥

 हे नाथ! त्वदीयो जनः दरसंयोगं अल्पकालसंसर्गं प्राप्तोऽपि अमृतदोग्धा निश्श्रेयसमार्गोपदेष्टा भवति ।

अहन्यहनि धर्मस्य योनिस्साधुसमागमः ।
मोहजालस्य योनिर्हि मूढैरेव समागमः ॥

 इत्यादिकमिहानुसंधेयम् । इदं युक्तम् । त्वद्विमुखोऽपि ईदृक्दरसंयोगं प्राप्तोऽमृतदोग्धा भवतीति चित्रम् । दकाररेफरूपसंयोगं प्राप्तः अमृतदोग्धा अमृतदोग्धेति वस्तुस्थितिः । समतुल्ययोगितयोरेकवाचकानुप्रवेशः ॥

 यथावा--

 त्वं ननु भवसि वदान्यस्सुधातिशिशिरः पृदाकुशैलेन्दो । विपरीतलक्षणादिह वदान्यमन्यं तु दावमिव मन्ये ॥ २२१६ ॥

 हे पृदाकुशैलेन्दो! त्वं ननु त्वमेव ‘प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु' इत्यमरः । सुधेव अतिशिशिरः अतिवेलकृपाशीतल इत्यर्थः । इन्दुपक्षे सुधया अतिशिशिर इति । वदान्यः ‘प्रियवाग्दानशीलश्च वदान्यः परिकीर्तितः' ‘य आत्मदा बलदा’ इति श्रुतात्मपर्यन्तसर्वस्वदाता त्वदन्यो महावदान्यः क इति भावः । यथाचोच्यते श्रीविष्णुधर्मे--

 ALANKARA IV.
13*