पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१७१

पुटमेतत् सुपुष्टितम्
163
सङ्करसरः (१२१)

तव अभक्तः सोऽपि तद्वदेव भायादित्याश्चर्यम् । परिहारस्तु-- मध्ये ना कस्थितिमान् इति छेदः । सः ना पुमान् 'पुरुषाः पूरुषा नरः' इत्यमरः । मध्ये अन्तराळे कस्थितिमान् कवर्णस्थितिमान् मौळिः मौकळिरित्यर्थः । शब्दार्थयोस्तादात्म्यम् । काक इव सतां भायात् । भगवदभक्तो ब्रह्मविदां काकतुल्यतया दूरतत्स्याज्यो भवेदिति भावः । यद्वा सः तव भक्तः मध्येनाकं आकाशमध्ये 'आकाशे त्रिदिवे नाकः' इत्यमरः । परमे व्योम्नि वा । स्थितिमान् ‘दिवि नक्षत्रभूतस्त्वम्' इत्युक्तरीत्या त्वत्कृपया प्राप्तज्योतिर्मयशरीर इति भावः । सतां नक्षत्राणां मुक्तानां वा मौळिर्भायात् तेषां मध्ये देदीप्यमानो भवेदितिभावः । त्वदभक्तस्तु मौकळिः काक इव निस्तेजस्कः प्राकृतेष्वपि निहीनतयाऽवस्थितः भायात् प्रतिभायादित्यर्थः । ‘मौकळिः पिकवर्धनः’ इति काकपर्यायेष्वमरः । “मूकलो यमः तस्यापत्यं मौकळिः 'मूकलः प्रेतभर्ता स्यान्मूकलः काननेचरः’ इति शब्दार्णवे” इतेि टीकासर्वस्वकारादयः । अत्र भगवद्भक्तत्वतदभक्तत्वयोर्विशेषणगत्या मौळित्वमौकळित्वे प्रति हेतुत्वात्काव्यलिङ्गद्वयं रूपकसंकीर्णं अर्थावृत्तिरूपकयमकेन सहैकवाचकानुप्रविष्टम् ॥

 यथावा--

 असकौ पीनो भूत्योपचितः पीताम्बरं श्रितो यस्स्यात् । असकौपीनो भूत्योपचितो हरिदम्बरं श्रितोऽपि स्यात् ॥ २२२२ ॥

 यः पीताम्बरं श्रीनिवासं अनेन सर्वसंपत्समृद्धिः सूचिता। श्रितः स्यात् असकौ असौ जनः । अदश्शब्दस्य ‘अव्ययसर्वा