पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१७६

पुटमेतत् सुपुष्टितम्
168
अलङ्कारमणिहारे

इति शेषः । अत्र स्वाभातरूपलाल्येत्यादिश्लेषस्य तन्मूलकातिशयोक्तेश्चाङ्गाङ्गिभावसंकरः । तया चोन्नह्यमाना हरिमणितिलकितत्वोत्प्रेक्षा फणिनायकगिरिधरण्यां नायिकाव्यवहारसमारोपरूपसमासोक्तिगर्भैवोन्नह्यत इत्युत्प्रेक्षासमासोक्त्योरुक्तश्लेषमूलकातिशयोक्त्युत्तम्भितत्वतौल्यात्परस्परापेक्षसौन्दर्यातिशयत्वैककालिकत्वयोरपि सद्भावात्समप्राधान्यम् । एतावत्येव कविसंरम्भे अयं संकरः । कलिततिलका नु इत्युपमायां चेत्संरम्भः तदा फणिनायकगिरिधरण्याः नायकौपम्यंस्य गम्यमानतया एकदेशविवर्त्युपमालंकारः । स श्लेषमूलातिशयोक्त्या अङ्गेन संकीर्यमाण इत्यनयोस्संदेहसंकरः । हरिमणिनेत्यत्र हरिरेव हरिमणिः हरिर्मणिरिवेत्युभयथाऽपि समाससंभवाद्रूपकोपमयोरन्योऽपि संदेहसंकरः । सुरुचिरकुरुविन्दबृन्दपटुकटकेत्यत्र श्लेषमूलातिशयोक्तेरनुप्रासस्य चैकवाचकानुप्रवेशसंकरः । एवं कलिततिलकेत्यत्र उत्प्रेक्षानुप्रासयोश्च हरिमणिनेति संदेहसंकरस्य पूर्वोत्तरार्धगतानुप्रासयोश्च संसृष्टिरिति पञ्चाप्यलंकारा अत्र मिळिता इति सुधीभिर्विभावनीयम् । अयं च पञ्चानामलंकाराणामेकत्र मेळनप्रकारः लक्ष्मीसहस्ररत्नप्रकाशिकाहंससंदेशरसास्वादिन्योश्च केषुचित्पद्येष्वस्माभिः प्रकाशितः ॥

 क्वचित्संकराणामपि संकराद्विच्छित्तिविशेषः । यथा--

 अजिराचितहरिमणिघृणिमसृणान्वज्रांश्च्युतान्गृहे धनिनाम् । उञ्छन्ति जाम्बवधिया यद्बालास्सा रमाकटाक्षश्रीः ॥ २२२८ ॥

 धनिनां श्रीमतां गृहे जात्यभिप्रायकमेकवचनम् । च्युतान् अनादराद्गळितान् अजिरेषु अङ्गणेषु आचिताः भूमीसमतलतया