द्वितीयो यथा--
तेषां चक्षुश्चक्षुस्तेषां जन्मैव जन्म मनुजानाम् । ये निध्यायन्त्यनिशं येऽनुध्यायन्ति फणिधरेशं तम् ॥ २२३७ ॥
अत्र द्वितीयचक्षुर्जन्मशब्दयोरुत्कर्षलक्षणस्तात्पर्यभेदः । ननु ‘इन्दुरिन्दुरिव श्रीमान्’ इत्यादावनन्वयालंकारेऽपि शब्दार्थपौनरुक्त्यसंभवाल्लाटानुप्रासत्वमेव किं न स्यादिति चेत्सत्यं, यद्यप्यनन्वये अर्थपौनरुक्त्यमात्रं लक्षणं तथाऽपि निर्देशप्रतिनिर्देशयोरैकरूप्यविरहे पर्यायप्रक्रमदोषप्रसंगादानुषङ्गिकं शब्दपौनरुक्त्यम् । अत्र तूभयपौनरुक्त्यमप्यावश्यकमेवेति विषयभेदान्न कोऽपि विरोधः । तदुक्तं--
अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् । |
इति, इत्याहुः । नन्वेवमप्यनेनैव लाटानुप्रासेन सिद्धस्यैव चक्षुरादेस्तात्पर्यभेदेन चक्षुष्ट्वादिविधानाद्विध्यलंकारो माऽस्विति चेन्न । 'रामस्य गात्रमसि' इत्यादौ शब्दार्थपौनरुक्त्याभावस्थले विध्यलंकारस्यावश्यकत्वादत्राप्यर्थवशात्समावेशे अनयोरेकवाचकानुप्रवेशसंकरस्यैव वक्तुं युक्तत्वात् ॥
यथावा--
तद्दैवतं हि दैवतमहिगिरिशिखरेऽस्ति यन्महोदारम् । मनुजस्स एव मनुजस्सकृदपि वा येन तत्स्मृतिं नीतम् ॥ २२३८ ॥