पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१८९

पुटमेतत् सुपुष्टितम्
181
शब्दालङ्कारसरः (१२२)

धर्मिण्या लक्ष्म्या उल्लासि प्रकाशमानं सुविपुलं अतिविशालं क्रोडं भुजान्तरं यस्य तं लक्ष्मीसमाश्लिष्टविशालवक्षसमित्यर्थः । तं वेदान्तवेद्यजगत्कारणत्वादिकल्याणगुणगणतया प्रसिद्धं अचलस्य स्थिरस्य महिम्नः माहात्म्यस्य आधारं इष्टं आश्रिताभीप्सितं यज्वभिः कृतं यागं वा आदधतं पुष्णन्तं गोविन्दं श्रीनिवासं ‘गोविन्देति यदाक्रन्दत्’ इत्युक्तरीत्या भगवतस्तन्नाम्ना सौशील्यपराकाष्ठाद्योतकेनाह्वाने प्रीत्यतिशयस्य गम्यमानतया शेषाद्रौ प्रायेण गोविन्दनाम्न एव जनैः कीर्त्यमानतया गोविन्दशब्देन निर्देशः । सन् प्रशस्तः योगो ध्यानं यस्य स तथोक्तस्सन् सद्यः अविन्दं शरणमवृणवम् । विन्दतेलङुत्तमैकवचनम् ॥

 अर्धावृत्तिर्यथा--

 शुभदामोऽदरभासुरजय मापाहिस्थिराधरामोदिन् । शुभ दामोदर भासुर जय मा पाहि स्थिराधरामोदीन् ॥ २२४४ ॥

 शुभदामः अदरभासुरजय माप अहिस्थिराधरामोदिन् शुभ दामोदर भासुर जय मां पाहि स्थिराधरामोदिन्, इति पदच्छेदः । अदरभाः अनल्पतेजसः ये असुराः जयतीति जयः पचाद्यच् । तेषां जयः अनल्पविक्रमदैतेयजेतेत्यर्थः तस्य संबुद्धिः अदरभासुरजय ! अहिस्थिराधरः शेषाद्रिः तस्मिन् आमोदिन् आनन्दिन्, शुभ ‘मङ्गळानां च मङ्गळम्’ इत्युक्तरीत्या मङ्गळरूप । दामोदर भासुर स्वप्रकाशस्वरूप । स्थिरायाः भूदेव्याः अधरेण अधररसेन आमोदिन् । यद्वा--स्थिराधर धरणिधर ‘धरणिधराच्युत शङ्खचक्रपाणे, ‘धरणिधर मे शिक्षय मनः’ इत्या