पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१९२

पुटमेतत् सुपुष्टितम्
184
अलङ्कारमणिहारे

 इत्यादिप्रमाणान्यनुसंधेयानि । इमे श्लोकावृत्त्यर्धावृत्तियमके महायमकं समुद्गकमिति नामभ्यां रुद्रटादिभिर्व्यवाह्रियेताम् । यथोच्यते--

'अर्धं पुनरावृत्तं जनयति यमकं समुद्गकं नाम ।
श्लोकस्तु महायमकम्’ इति ॥

 यथावा--

 लक्ष्मीश्चकास्ति भवतो नवतोयदसारभासितादवितः । लक्ष्मीश्च काऽस्ति भवतोऽनवतो यदसारभासितादवितः ॥ २२४७ ॥

 लक्ष्मीः चकास्ति भवतः नवतोयदसारभासितात् अवितः, इति पूर्वार्धे । उत्तरार्धे तु लक्ष्मीः च का अस्ति भवतः अनवतः यत् असारभासितात् अवितः इति च्छेदः । हे अवितः अवतेः रक्षणार्थकातृच् । हे रक्षक!

'न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम्’ ।

इत्युक्तेः । नवतोयदाः प्रावृषेण्यवारिदाः तेषु सारः श्रेष्ठः तस्य भा प्रभेव असितात् श्यामलात् । यद्वा नवतोयदस्य सारभा श्रेष्ठदीप्तिः सेव असितः तस्मात् । तस्या अप्यसितादिति वा । भवतः त्वत्तः लक्ष्मीः चकास्ति । नीलतोयदमध्यस्थविद्युदिव प्राप्तपरभागतया भासत इति भावः । यद्वा भवतस्सकाशात् लक्ष्मीः संपत् जनानामिति शेषः । चकास्ति त्वत्त एव जगतां समृद्धिलाभ इति भावः । अनवतः आपत्सु अरक्षकात् संहर्तृतया अप्रीणयतश्च भवतः शर्वात् लक्ष्श्ची श्रीरपि संपदिति वार्ताऽपीति भावः । का अस्ति जनानां तस्मात्काऽपि संपन्न सिध्यतीति भावः । कुत इत्यत आह-—यदिति । यत् यस्मात्करणात् अयमित्यध्याहारः,