पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१९६

पुटमेतत् सुपुष्टितम्
188
अलङ्कारमणिहारे

पादाद्यभागे चावृत्तावपरो भेदः । तथा अर्धावृत्तिन्यायेन प्रथमपादाद्यभागस्य तृतीयपादाद्यभागे द्वितीयपादाद्यभागस्य चतुर्थपादाद्यभागे चावृत्तावन्यो भेद इत्याद्या भागावृत्तिनिबन्धना दश भेदाः ॥

 नन्वर्धावृत्तिन्यायेनेव श्लोकावृत्तिन्यायेनापि तत्तद्भेदाः कुतो नोच्यन्त इति चेत् विच्छित्तिविशेषाभावेन श्लोकान्तरे भागावृत्तिनिबन्धना भेदा नोक्ता इति ध्येयम् । एवमेवान्त्यभागावृत्तिनिबन्धनाश्च भेदा दश । एवं पादानां द्विधा विभागे विंशतिर्भेदाः त्रिधा विभागे त्रिंशत् । चतुर्धा विभागे चत्वारिंशद्भवन्ति भेदा इत्याद्यूह्यम् । इत्थं शुद्धभेदा निरूपिताः ॥

अथ संकीर्णभेदप्रकाराः.

एवमन्त्यादिकाद्यान्तमध्यादीन्यादिमध्यगम् ।
अन्त्यमध्यं च मध्यान्त्यमेतेषां च समुच्चयाः ॥

 यदा प्रथमादिपादगतान्त्यभागो द्वितीयादिपादाद्यभागे यम्यते तदा अन्त्य आदौ यम्यत इत्यन्वर्थताश्रयणादन्त्यादिकम् । यदा प्रथमपादाद्यभागो द्वितीयपादान्त्यभागे यम्यते तदा आद्योऽन्त्ये यम्यत इत्याद्यन्तकम् । एवं प्रथमादिपादमध्यभागस्य द्वितीयादिपादाद्यभागे यमने मध्यादिकम् । पवमाद्यभागस्य मध्यभागे यमने आदिमध्यगम् । एवमन्त्यभागस्य मध्यभागे यमने अन्त्यमध्यगम् । मध्यभागस्यान्त्यभागे यमने मध्यान्त्यकम् । यदा एतेषां समावेशस्तदैतत्समुच्चयाश्च भवन्तीत्यवधेयम् । एवमेक--पादगतभागानां पादान्तरभागापेक्षा भेदाः प्रदर्शिताः । एकपादगतभागानामन्योन्यापेक्षा भेदाः प्रदर्श्यन्ते--