पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२४

पुटमेतत् सुपुष्टितम्
16
अलंकारमणिहारे

 जडिमा शैत्यं अज्ञानं च । अशोकानां वृक्षविशेषाणां श्रीः विकाससंपत् । अशोका शोकोपलक्षितहेयगुणरहिता श्रीः संपत् । माधवः वसन्तः । श्रीनिवासश्च । ‘यथा तथेति निपातौ हेत्वर्थकौ’ इति गणव्याख्याने । यथा यस्मात् तथा तस्मात् इत्यर्थः । यद्वा । ‘यथाशब्दस्तु निर्दिंष्टस्तुल्ययोगानुमानयोः' इति विश्वकोशादनुमानवाचकः । अत्र जडिमापसर्पणादिलिङ्गेन माधवोल्लसनानुमानम् । अमी साधवः अन्तर्विलसन्माधववन्तः जडिमापसर्पणादिमत्त्वादिति प्रयोगः ॥

 यथावा--

 अपहृत्य तव मुखद्युतिमन्तर्निशमेव दृश्यनिजरूपः । वेंकटनाथ शशाङ्कश्शङ्कान्वित एव केवलं मन्ये ॥ २०२७ ॥

 हे वेङ्कटनाथ! शशाङ्कः चन्द्रमाः शशाङ्कशब्दश्च अनयोस्तादात्म्यम् । तव मुखद्युतिं अपहृत्य अन्तर्निशमेव रात्रावेव, पक्षे अन्तः मध्ये निशं निवर्तितशाकारमेव विभ्रंशितशावर्णमेव यथा स्यात्तथा । क्रियाविशेषणत्वान्नपुंसकता । ‘ह्रस्वो नपुंसके प्रातिपदिकस्य’ इति ह्रस्वः । दृश्यं निजरूपं स्वस्वरूपं यस्य स तथोक्तः केवलं शङ्कान्वित एव भीत एवेति मन्ये । अन्यथा रात्रावेव स्वरूपप्रकाशः कुतोऽस्येति भावः । पक्षे शशाङ्कशब्दः मध्यगतशाकारलोपे शङ्कान्वितः शङ्क इयाभ्यां वर्णाभ्यामेवान्वित इत्यर्थः । अत्र शशाङ्कनिष्ठशङ्कान्वितत्वरुपलिङ्गिनः अन्तर्निशदृश्यनिजरूपत्वलिङ्गजन्यत्वेनानुमानम् ॥

 यथावा--

 जाने विभाकरोऽयं शौरे त्वत्तेजसा पराभूतः ।