पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२४३

पुटमेतत् सुपुष्टितम्
235
शब्दालङ्कारसरः (१२२)

 तत्र गूढप्रथमं यथा--

 अशिथिलगुणानुबन्धां शिथिलितवन्दारुबृन्दभवबन्धाम् । अविकलसदवनसन्धां विनुवन्प्रगुणां श्रियं जन इहेन्धाम् ॥ २३१७ ॥

 अविकला सदवने साधुरक्षणविषये सन्धा प्रतिज्ञा यस्यास्ताम् । प्रगुणां ऋजुप्रकृतिं आर्जवं च मनोवाक्कर्मणामैकरूप्यं 'ऋजावजिंहप्रगुणौ' इत्यमरः । श्रियं विनुवन् अभिष्टुवन् जनः इन्धां ऐश्वर्यादिभिर्दीप्यताम् । अत्र प्रथमपादवर्णा अवशिष्टपादेषु गूढाः ॥

 गूढद्वितीयं यथा--

 भव्याब्जभानुमाली भाव्याकृतिरादधाति वनमाली । स्तवनकृदखिलबुधालीधृतिं मुरारातिरनघगुणशाली ॥ २३१८ ॥

 भव्यं जगतां क्षेममेव अब्जं तस्य भानुमाली । भाव्या ध्यानार्हा आकृतिः यस्य सः अनघगुणशाली मुरारातिः स्तवनकृतां अखिलबुधानां आल्याः पङ्क्तेः धृतिं धैर्यं धारणं वा आदधातीति योजना । अत्र द्वितीयपादवर्णा: पादान्तरेषु गूढाः ॥

 गूढतृतीयं यथा--

 विजिगीषतां दिविषदां स्वाराज्यश्रीर्यया पुरा जुगुपे । श्रीर्मा देवी जुषतां सा देशिकवीक्षणात्तशर्माणम् ॥ २३१९ ॥

18*