पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२४४

पुटमेतत् सुपुष्टितम्
236
अलङ्कारमणिहारे

 देशिकानां आचार्याणां वीक्षणात् कटाक्षात् आत्तं शर्म सुखं येन तं मा मां श्रीः देवी जुषतां सेवतां । अत्र ‘श्रीर्मा देवी जुषताम्' इति श्रुतिवाक्यमेव तृतीयपादत्वेनोपात्तं तदेव पादान्तरेषु गोपितमिति गूढतृतीयमिदम् ॥

 गूढचतुर्थं यथा--

 काकोदराचलौका लोकाभीष्टार्थदिविजभूमिरुहः । ललनोरस्कः पायात् जलरुहदललोचनोऽपायात् ॥ २३२० ॥

।ऽ दिविजभूमिरुहः कल्पतरुः अपायात् पायादिति योजना । अत्र तुरीयपाद आद्यपादत्रितये गोपितः । गोपितानां पादवर्णानां नात्र क्रमनैयत्यमिति ध्येयम् ॥


अथ क्रियावञ्चनचित्रम्

क्रियादिकं विद्यमानमपि संदर्भकौशलात् ।
स्पष्टं न दृश्यते चेत्तत्क्रियादेर्वञ्चनं विदुः ॥

 पद्ये विद्यमानमपि क्रियादिकं आदिशब्देन कारकसंबन्धामन्त्रणादेस्संग्रहः । पदसंदर्भचातुर्यात् स्फुटं न दृश्यतेचेत् तत्क्रियादिवञ्चनं नाम चित्रम् ॥

 यथा--

 कमलाक्ष तव कटाक्षाः कृतहृदयग्रन्थिबन्धपरिमोक्षाः । विशयमवश्यन्त्वखिलं विशदमवद्यंतु सर्वकर्म च मे ॥ २३२१ ॥