पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२४७

पुटमेतत् सुपुष्टितम्
239
शब्दालङ्कारसरः (१२२)

शेषणभावापन्नसप्तम्यन्तपदद्वयभ्रमजननात् विभो इति संबुद्धिर्वञ्चिता । एवं विधातरीशे इत्यानुपूर्व्या समभिव्याहृतत्वयीति सप्तम्यन्तविशेषणताभ्रमोत्पादनेन विधातरिति संबुद्धेश्च वञ्चनमित्यामन्त्रणवञ्चनं नाम चित्रम् । एवमेव ईशे इति पदस्याप्युक्तविधभ्रान्तिसंपादकतया क्रियावञ्चनं चाभ्युच्चीयते ॥


अथ सप्तविभक्तिवञ्चनचित्रम्

यत्रैकस्यैव शब्दस्य गुप्तास्सप्त विभक्तयः ।
तत्र सप्तविभक्तीनां वञ्चनं चित्रमुच्यते ॥

 यथावा--

 भातीदृशी मयेयं जगतीष्टे या समर्पितस्वायै । जनताया आधत्ते श्रियस्स्तुता या मनोऽनुभवति च याम् ॥ २३२५ ॥

 भाति ईदृशी मया इयं जगती ईष्टे या समर्पितस्वायै जनतायै आधत्ते श्रियः स्तुताः याः मनः अनुभवति च याम् इति छेदः । जनताया आधत्ते इत्यत्र ऐकारस्य आकारे परे ‘एचोयवायावः' इत्यायादेशे ‘लोपः शाकल्यस्य, इति यलोपः तस्यासिद्धत्वान्न स्वरसन्धिः । इयं जगती लोकः ‘अथो जगती लोकः' इत्यमरः । मया लक्ष्म्या हेतौ तृतीया । ईदृशी परिदृश्यमानैवविधविविधविचित्रभोक्तृभोग्यभोगोपकरणभोगस्थानादिसमृद्धिशालिनी भाति प्रकाशते । एवंविधो जगत्सन्निवेशस्सर्वोऽपि लक्ष्मीसंकल्पायत्त