पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२६१

पुटमेतत् सुपुष्टितम्
253
शब्दालङ्कारसरः (१२२)

तीति खगगः तार्क्ष्यवाहन इत्यर्थः । 'अन्यत्रापि दृश्यत इति वक्तव्यम्’ इति’ वार्तिकात् गमेर्डः । यद्वा खगं भानुं गच्छतीति खगगः सवितृमण्डलान्तर्वर्तीत्यर्थः 'य एषोऽन्तरादित्ये' इत्यादिश्रुतिभ्यः । अङ्कागाङ्काङ्काङ्कगकङ्कककङ्काकहा—अङ्कं संख्यां न गच्छतीत्यङ्कागः असंख्याक इत्यर्थः । यद्वा अङ्कं कलङ्कं न गच्छतीत्यङ्कागः निष्कलङ्क इत्यर्थः । योऽङ्कः चित्रयुद्धं तस्य अङ्कः स्थानं तस्य अङ्कं समीपं गच्छतीत्यङ्काङ्कगः । यद्वा अङ्कः अपराधः तं न गच्छतीत्यङ्कागः निरपराध इत्यर्थः । तथोक्तश्चासावङ्काङ्कगश्चेति विशेषणोभयपदः कर्मधारयः । तादृशो यः कङ्ककः गृध्रः जटायुरित्यर्थः । तस्य कङ्काकहा कङ्कः यमः तत्कृतं यत् अकं दुःखं तद्धन्तीति तथोक्तः । हन्तेः क्विप् 'या गतिर्यज्ञशीलानाम्' इत्यादि वदता भगवता तस्य दिव्यस्थानप्रदानेन यमविषयगमनदुःखस्य गळहस्तितत्वादिति भावः ।

अकं दुःखाघयोरङ्को भूषारूपकलक्ष्मसु ।
चित्राजौ नाटकाद्यंशे स्थाने क्रोडेऽन्तिकागसोः ॥

 इति हेमचन्द्रः । खगाङ्काङ्कः खं परमव्योम गच्छतीति खगः यः अङ्कः ‘दिव्यं स्थानमजरं चाप्रमेयम्’ इत्याद्युक्तः श्रीवैकुण्ठाख्यस्थानविशेषः । तस्य अङ्कः आभरणभूत इत्यर्थः । अत्र भगवांस्तार्क्ष्यवाहनः परमव्योमनिलयश्श्रीवत्सवक्षा एव रामात्मनाऽवतीर्य काकासुरविपदपनयनो जटायुनिश्श्रेयसविश्राणयिता च भूत्वाऽर्चात्मना शेषाद्रौ निवसतीति निर्गळितोऽभिप्रायः । परमव्योमनिलयत्वादिना परत्वं विभवरूपावस्थानेन सौलभ्यं अर्चात्मनाऽवस्थानेन तस्यैव निरतिशयत्वं च व्यञ्जितम् । अत्र कण्ठ्यैरेव स्वरैर्व्यञ्जनैश्च पद्यरचना । दुष्करमिदं चित्रमित्याहुः ॥