पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२६७

पुटमेतत् सुपुष्टितम्
259
शब्दालङ्कारसरः (१२२)

कुरुताम् । अत्रैकवर्गीययोरेव व्यञ्जनयोर्द्वयोर्घटनादिदं द्विव्यञ्जनचित्रं पूर्वोदाहरणतो वैलक्षण्यशालि ॥

 यथावा--

 धाराधरधाराधरधराधरधराधराधारः । राधाधरधाराधा धीरोधिधुरंधरोऽराधि ॥ २२५६ ॥

 धाराधराणां जलधराणां धाराः जलासाराः तासां धरः अनारतघनाघनवर्षधारास्तिमिततया शीतल इति दिव्यप्रबन्धप्रथित इति भावः । यः धराधरः शेषः स चासौ धराधरो गिरिः स एवाधारोऽधिकरणं यस्य सः उक्तविशेषणविशिष्टशेषाद्रिनिवासीत्यर्थः । राधायाः अधरस्य अधररसस्येति यावत् याः धाराः ताः धयति पिबतीति राधाधरधाराधाः ‘धेट् पाने' अस्मात् क्विप् । धीरः 'धैर्येण हिमवानिव’ इत्युक्तरीत्या धैर्यशाली, धीरोधिनां विषयेभ्यो नियन्त्रितमतीनां योगिनामित्यर्थः 'योगश्चित्तवृत्तिनिरोधः' इति हि पातञ्जलं सूत्रम् । धुरंधरः तद्रक्षाभरस्वीकर्तेत्यर्थः । ‘योगो योगविदां नेता' इति हि तन्नामसु पठ्यते । यद्वा 'व्यक्तमेष महायोगी परमात्मा सनातनः' इत्याद्युक्तरीत्या योगिनामीश्वर इत्यर्थः । अराधि अपूजि । अस्माभिरिति शेषः । राधेः कर्मणि लुङि चिण् । अत्रापि पूर्ववद्व्यञ्जनद्वयेनैव घटना, पूर्वार्धे यमकविशेषोऽपीति वैलक्षण्यम् ॥

 यथावा--

 दुररिदरदारिदरदोरुरोऽररोदारदार दारिद्री । रौद्रारिदुर्दरोदरदरदारदुरोदरादरादारि ॥ २३५७ ॥

 दुररिदरदारिदरदोः उरोऽररोदारदार दारिद्री रौद्रारिदुर्दरोदरदरदारदुरोदरादर अदारि । इति छेदः । रौद्रः