पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२८३

पुटमेतत् सुपुष्टितम्
275
शब्दालङ्कारसरः (१२२)
 

 हारबन्धो यथा--

 श्रीलक्ष्मीलक्ष्मालङ्क्रियं घनाघनघनश्रियश्श्रयभयदम् । पूतध्यातञ्चेतश्शेषधराधरधरामणिङ्गुणिभणितम् ॥ २३७५ ॥

 श्रीः लक्ष्मीः लक्ष्म श्रीवत्सश्च अलङ्क्रिये अलंकारौ यस्य तम् । घनाघनघनश्रियः प्रावृषेण्यजलदसान्द्ररुचः भयदं तातोऽपि नीलमिति यावत्। पूतैः शुद्धान्तःकरणैः मुनिभिः ध्यातं उपासितम् । गुणी अनन्तकल्याणगुणाकर इति भणितं श्रुतिभिः प्रतिपादितं शेषधराधरधरायाः मणिं रत्नभूतं श्रीनिवासं हे चेतः हृदय श्रय आश्रयस्व ॥ उद्धारस्तु--