पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२८९

पुटमेतत् सुपुष्टितम्
281
ग्रन्थोपसंहारः

 सरसकविवचनपरिमळमभिजानन्ति हि बुधा न जात्वन्ये । प्रतिपर्वतशिखरस्थैर्न ह्युपलैर्गृह्यते सूची ॥ २३९० ॥

 सरसकवितासर्वस्वज्ञैश्शिरस्पदलालिता कृतिरतितरां तद्गन्धास्वादनेऽतिदवीयसः । धुरि न पदमाधत्तां मृद्वी नवा सुममालिका शिरसि सुदृशां लाल्या हस्ते कपेरिव जात्वपि ॥ २३९१ ॥

 अन्तर्बहिरपि रसलवदवीयसीं रसविदग्रणीः को वा । सिकतामिव दुष्कवितां चर्वितुमीहेत सर्वतः कठिनाम् ॥ २३९२ ॥

 आपाततोऽतिकठिनाऽप्यास्वाद्यत एव रसघनावयवा । कविता प्रौढकवीनां भविता ननु खण्डशर्करातुलिता ॥ २३९३ ॥

 अविवेचितमपि मधुरं विवेचितं त्वन्तरतिरसघनत्वात् । कदलीफलमिव सत्कविकवनं रसिकस्य भाति मधुरतमम् ॥ २३९४ ॥

 अविवेचितं—-अविचारितं अपृथक्कृतोपरित्वक्च । विवेचितं विचारितं पृथक्कृतत्वक्च । रसघनत्वात् केवलरसमयत्वात् । अन्यत्सुगमम् ॥

 ALANKARA IV.
21