पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२९५

पुटमेतत् सुपुष्टितम्
287
ग्रन्थोपसंहारः

राशिः । संख्यातीतप्रबन्धप्रशमितविमतव्रातशङ्काकलङ्को मोदान्वेदान्तसूरिर्दिशतु गुरुवरस्सर्वतन्त्रस्वतन्त्रः ॥ २४१५ ॥

 आदिश्रीवण्शठारिर्यतिपतिरभवद्यत्पदाब्जोपजीव्यः सोऽयं श्रीवत्सवंश्यो वरदगुरुरपि च्छात्रतां यत्र भेजे । द्वैतीयीकावतारो य इह यतिपतेर्ब्रह्म यश्च द्वितीयं छात्रो वेदान्तसूरेस्स खलु विजयतां ब्रह्मतन्त्रस्वतन्त्रः ॥ २४१६ ॥

 यच्चक्राङ्कप्रभावाद्यदुनृपतिमुखाः प्राज्यसाम्राज्यगोपा भूपास्सर्वेऽपि खर्वेतरनिजयशसश्श्रीमहीशूरपुर्याम् । तेऽमी शेषाद्रिवासाश्श्रुतिमकुटगुरूत्तंससिद्धान्तसिद्धास्सर्वेऽप्युर्व्यां प्रथन्तां यतिकुलपतयो ब्रह्मतन्त्रस्वतन्त्राः ॥ २४१७ ॥

 डिल्लीशानार्चिताङ्घ्रिर्यतिकुलनृपतेर्यस्तृतीयोऽवतारो दिव्ये देशे समग्रेऽकृत निगमशिरोदेशिकार्चाप्रतिष्ठाम् । यश्श्रीमद्ब्रह्मतन्त्रोत्तमयतितिलकास्थानलक्ष्मीनिधानं कुर्वन्नार्तप्रपत्तिं स्फुटनिजमहिमां न्यासविद्यामतानीत् ॥ २४१८ ॥