पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२९७

पुटमेतत् सुपुष्टितम्
289
ग्रन्थोपसंहारः

णशक्तिः । व्याधत्तैतद्वृषाद्रीश्वरसुगुणमणीहार्यलंकारशास्त्रं श्रीकृष्णब्रह्मतन्त्रादिमपदपरकालाभिधानोयतीन्द्रः ॥ २४२३ ॥

 पञ्चसहस्रेष्वेकाधिकेषु (५००१) यातेषु कलियुगेऽब्देषु। अब्दे विकारिनामनि पूर्णोऽलंकारमणिहारः ॥ २४२४ ॥

 अधिकण्ठं सोत्कण्ठं विधृतो यैरेष विश्रुतौज्ज्वल्यः । प्रथयति लक्ष्मीमेषां प्रायोऽलंकारमणिहारः ॥ २४२५ ॥

 रसवत्प्रेयस्सुन्दरमूर्जस्विसमाहितप्रियंकरणम् । जयतु सनातनमिथुनं सालंकरणं मदीयकवनं च ॥

 रसवत् शृङ्गारादिरसशालि । प्रेयः अन्योन्यप्रियतमं सुन्दरं । पक्षे रसवत्प्रेयोभ्यां तन्नामालंकाराभ्यां सुन्दरम् । ऊर्जस्वि बलवत् । समाहितानां समाहितमनस्कानां योगिनां प्रियंकरणम् । पक्षे ऊर्जस्विसमाहिताभ्यां तन्नामालंकाराभ्यां प्रियंकरणं । सनातनमिथुनं लक्ष्मीनारायणात्मकं द्वन्द्वं मदीयकवनं च जयतु ॥

 भवतु गुणोऽन्यो मा वा भवदैकान्त्यं गुणो महानस्याः । पत्या सतीव तदियं प्रीत्याऽऽदृत्या त्वयाऽच्युत कृतिर्मे ॥ २४२७ ॥