पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३०

पुटमेतत् सुपुष्टितम्
22
अलङ्कारमणिहारे

'विष्णुपत्नी' इति श्रियोऽपि प्राधान्यश्रवणात् । तत् तस्मात् एनयोः श्रीश्रीशयोरुभयोरपि परतन्त्रत्वं अन्योन्यं पराधीनत्वं तुल्यम् । "त्वयि स्त्रीत्त्वैकान्तान्म्रदिमपतिपारार्थ्यकरुणाक्षमादीन्वा भोक्तुं भवति युवयोरात्मनि भिदा । यस्या वीक्ष्य मुख तदिङ्गितपराधीनो विधत्तेऽखिलं । यद्भ्रूभङ्गाः प्रमाणं स्थिरचररचनातारतम्ये मुरारेः” इत्याद्युक्तेरिति भावः ॥

अहं तया समाक्रान्तो ह्यहमर्थः प्रसिध्यति ।
अहमर्थसमुत्था च साऽहन्ता परिकीर्तिता ॥
अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ।
तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः ॥

इति लक्ष्मीतन्त्राद्युक्तमपीहानुकूलम् ॥

 पक्षे-- श्रुतिः पुमांसं पुंल्लिङ्गं सुमज्जानिं सुमज्जानिशब्दं आह । अत्र बहुव्रीहिसमासं प्राप्ते सुमज्जानिशब्दे उपसर्जनीभूता विशेषणतामापन्ना सुमती सुमतीति शब्दः पुंवत् प्रथते । ‘स्त्रियाः पुंवद्भाषितपुंस्कात्' इत्यादिना विहितं पुंवद्भावं प्राप्ता प्रकाशते । तत् तस्मात् एनयोः सुमज्जानिशब्दयोः परतन्त्रत्वं अन्यपदार्थप्रधानत्वं तुल्यं ‘अन्यपदार्थप्रधानो बहुव्रीहिः’ इत्युक्तेरिति भावः । ‘तन्त्रे प्रधाने सिद्धान्ते' इत्यमरः । अत्र श्रीश्रीशयोरन्योन्यपारतन्त्र्यं साध्यम् । इमौ श्रीश्रीशौ अन्योन्यपारतन्त्र्यवन्तौ समप्रधानैश्वर्यव्याप्त्यादिमत्त्वादिति प्रयोगः । अत्रापि वाचकपदानुपादानात्प्रतीयमानमनुमानम् ॥

 यथावा--

 तावकवर्णप्रेप्सुः पुरतो नीतैव शान्तिमत्त्वं यदगात् । श्रीरुत्तमवरवर्णिनि निशा निराशा तदन्तरावर्णाप्तौ ॥ २०३५ ॥