पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३३

पुटमेतत् सुपुष्टितम्
25
अनुमानसरः (११३)

 अन्यत्र भास्कर इति शब्दः भातत्वात् भाकारस्य तकारत्वा , भाकारमपनीय तत्रैव तकारविन्यसनात् पदरुच्याः इति छेदः पदेषु सुप्तिङन्तात्मकेषु रुचिः अभिलाषः यस्याः तथोक्तायाः पदपरिवृत्तिवैचित्र्यादिकुतूहलिन्या इति यावत् । तव भवत्याः तस्करः तस्कर इत्येव शब्दो भवति । किंच यत् यस्मात् अयं तस्करशब्दतामापन्नो भास्करशब्दः अपराङ्गे उत्तरभागे गुणेन ‘दिवाविभानिशा’ इत्यादिसूत्रविहितार्धधातुकटप्रत्ययनिमित्तकेन लघूपधगुणेन संदानितः युक्तः करः कुञ्धातुप्रकृतिकाकरेति शब्दः यस्य स तथोक्तः । अन्तरेसतामिति समस्तं पदम् । अन्तरे इत्येतदेदन्तमव्ययं मध्ये इत्यर्थकम् । ‘अथान्तरेऽन्तराः अन्तरेण च मध्ये स्युः' इत्यव्ययेष्वमरः । अन्तरे मध्ये सः 'कस्कादिषु च' इति विहितस्सकारः ‘तद्बृहतोः' इति विहितस्सुट्संबन्धिसकारश्च यस्य स तथोक्तः । तस्य भावः अन्तरेसता तां गमितः प्रापित इत्यर्थः । इदमप्याक्षिप्तमेवानुमानम् ॥

 यथावा--

 त्वत्कीर्तिसुधाम्भोधश्शीतकरोऽयं कणः फणिगिरीन्दो । यत एष शीकर इति स्वत एव मनीषिभिर्व्यवह्रियते ॥ २०३७ ॥

 हे फणिगिरीन्दो! शीतकरः त्वत्कीर्तिसुधाम्भोधेः कणः । इदं साध्यं । तत्र हेतुः यत इति । यतः यस्मात् एषः शीतकरः स्वत एव शीकर इति मनीषिभिर्व्यवह्रियते । वस्तुतस्तु अतः अविद्यमानतकारः सुष्ठु अतः स्वतः विगळिततकारोऽयं शीतकरशब्दः शीकर इति व्यवह्रियत इत्यर्थः ॥

 ALANKARA IV.
4