पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/४२

पुटमेतत् सुपुष्टितम्
34
अलंकारमणिहारे

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ॥

 इत्युक्तरीत्या मूढः मायया अपहृतज्ञानश्च जनः न प्रपद्यतां प्रपन्नो मा भूदित्यर्थः । उक्तार्थे--

 'अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हिचित् ।' इति स्नातकधर्मोक्तं चक्षुरगोचरं कान्तारं कदाचिदपि न प्रविशेदित्यर्थकं मनुवचनं श्लेषभित्तिकाभेदाध्यवसायेन प्रमाणतामनीयत । पूर्वं स्मृतेरभिमतार्थे प्रमाणतयोपन्यासः । इह तु भगवदप्रपन्नोपालम्भपरेणानभिमतार्थे इति विशेषः ॥

 इतिहासरूपशब्दप्रमाणं यथा--

 विषयविषाब्धाविन्द्रियमकरैः कुष्टोऽपि धारयन् प्राणान् । अधुनाऽऽपं त्वां द्वीपं जीवन् भद्राणि पश्यतीति नयात् ॥ २०५७ ॥

 हे भगवन्निति प्रकरणाल्लभ्यते । अधुना यादृच्छिकादिसुकृतपरिपाकावसरे इदानीं त्वामेव द्वीपं आपं प्राप्तवानस्मि । अत्र बहूनि कृच्छ्राणि सोढ्वा प्राणान् धारयितुस्स्वस्य बहोः कालाद्भगवच्चरणावलम्बनभाग्यलाभरूपेऽर्थे--

 'विनाशे बहवो दोषा जीवन् भद्राणि पश्यति’ इति श्रीरामायणं प्रमाणतयोपात्तम् ।

 यथावा--

 एतदलंकरणगणं नाथ ममादास्त्वमहमपि तवादाम् । रामायणमाह कृते प्रतिकर्तव्यं सनातनं धर्मम् ॥ २०५८ ॥