पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/४६

पुटमेतत् सुपुष्टितम्
38
अलंकारमणिहारे

 यथावा--

 निर्मित्सा चेत्तव जगदासीदेवात्र नेष्यतेऽभ्यासः । अत एवाच्युत पाणिनिरत्राभ्यासस्य लोपमेवाह ॥ २०६३ ॥

 हे अच्युत! तव जगदेककारणस्येति भावः । निर्मित्सा निर्मातुमिच्छा चेत् जगत् इदं भुवनं आसीदेव निष्पन्नमेव । न तु तन्निष्पत्तौ मात्रयाऽपि विलम्बः 'इच्छामात्रं प्रभोस्सृष्टिः' इति श्रुतेरिति भावः । अत्र निर्मित्सायां अभ्यासः पौनःपुन्यं नेष्यते । सकृदिच्छोन्मेषमात्रादेव संभवन्त्यां जगत्सृष्टौ तत्पौनःपुन्यं नापेक्षितमिति भावः । अतएव निर्मित्सायामभ्यासानपेक्षणादेव पाणिनिः अत्र निर्भित्सारूपेऽर्थे, पक्षे निर्मित्साशब्दे अभ्यासस्य पौनःपुन्यस्य, अन्यत्र द्विर्वचनस्य लोपमेव अदर्शनमेव आह कथयति । निरित्युपसर्गपूर्वकात् माधातोस्सनि ‘सनि मी मा’ इत्यारभ्य यदुक्तं तत्राभ्यासलोपस्य ‘अत्र लोपोऽभ्यासस्य’ इति सूत्रेण तेन विहितत्वादिति भावः । अत्र भगवतो जगन्निर्माणविषयकेच्छाभ्यासानपेक्षणेऽर्थे पूर्ववदेव श्लेषमूलातिशयोक्त्यवलम्बनेन उपदर्शितं पाणिनिसूत्रं प्रमाणीकृतम् ॥

 यथावा--

 सम एव भवति सम्राट् पुरुषत्वं चापि भवति तस्यैव । यन्मो राजि समः क्वौ व्रश्चभ्रस्जेति सूत्रितं मुनिना ॥ २०६४ ॥

 मया श्रिया सह वर्तत इति समः । स एव सलक्ष्मीक एव सम्राट् जगदीश्वरो भवति 'एष ब्रह्मलोकस्सम्राट् । राजा