पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/५०

पुटमेतत् सुपुष्टितम्
42
अलंकारमणिहारे

विकल्पे प्राप्ते ‘द्वंद्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्’ इति नित्यसमासः । विष्णुः भगवान् श्रिया लक्ष्म्या सह ‘वृद्धो यूना’ इति निर्देशाद्विनाऽपि सहशब्दयोगं तृतीया । परस्मिन् पदे श्रीमति वैकुण्ठे आस्ते उपविशति । तत् तस्मात् स चासौ पुरुषश्च तत्पुरुषः तस्य पूर्वोक्तस्य परमपुरुषस्येत्यर्थः । उत्तरे श्रेष्ठे पदे स्थाने नित्यं मया श्रिया सह वर्तत इति समः आसः उपवेशः आसेर्घञ् । नित्यसमं यथातथा आस इति वा । लक्ष्म्या सहावस्थानं तस्य वचः वचनं अत्युचितम् । पक्षे उपपादितरीत्या उत्तरपदे परतः तत्पुरुषस्य नित्यसमासवचनं अत्युचितमित्यर्थः । अत्र ‘वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्पतिः । आस्ते विष्णुरचिन्त्यात्मा’ इति वचनरीत्या स्वोपपादितेऽर्थे उपदर्शितश्लेषमूलातिशयोक्त्या ‘द्वंद्वतत्पुरुषयोः’ इत्युक्तव्याकरणवार्तिकस्य प्रमाणतयोपन्यासेन औचित्यं समर्थितम् ॥

 यथावा--

 या मदयति स्वसेविनमचिरेण जनं हरिप्रिया सैषा । सुवचा हलिप्रियेत्यपि रलयोरभिदा हि सम्मता विदुषाम् ॥ २०६८ ॥

 या हरिप्रिया स्वसेविनं आत्मानं भजमानं आस्वादयमानं च मदयति हर्षवन्तं मदवन्तं च करोति 'हर्षेऽप्यामोदवन्मदः' इत्यमरः । सा हरिप्रिया हलिप्रियेत्यपि सुवचा हरिहलिनोरभेदादिति भावः । हली बलभद्रः । पक्षे उपपादितेन हेतुनैव हलिप्रिया कादम्बरीत्यपि सुवचा । ‘सुरा हलिप्रिया’ इत्यमरः । समर्थितमप्यर्थं स्थूणानिखनन्यायेन पुनस्समर्थयते-- रलयोरिति । हि यस्मात् रलयोर्वर्णयोः अभिदा अभेदः विदुषां वैयाकरणानां