पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/५१

पुटमेतत् सुपुष्टितम्
43
शब्दप्रमाणसरः (११५)

सम्मता । अतो हरिप्रियाशब्दः हलिंप्रियेत्यपि सुवचेति भावः । शब्दार्थतादाम्यं न विस्मर्तव्यम् । अत्र स्वविवक्षिते हरिप्रियायाः हलिप्रियात्वनिर्धारणे वैयाकरणोक्तेः प्रमाणता ॥

 यथावा--

 अजरं ब्रह्म तदेकं दैवतमन्यत्तु नाजरं विद्मः । जरसा विकृतिमजादौ मुनिराह हि निर्जरे समस्तेऽपि ॥ २०६९ ॥

 तद्ब्रह्म एकमेव अजरं जरोपलक्षितसर्वविकारविधुरं ‘विजरो विमृत्युः, यत्तच्छान्तमजरं परं ब्रह्म’ इत्यादिश्रुतेः । अन्यद्दैवतं तु अजरं न विद्मः । दैवतान्तरस्य सर्वस्यापि जरामरणाद्यनतीतत्वात् । हि यस्मात् मुनिः पाणिनिः । अजादौ चतुर्मुखादौ समस्ते निर्जरे दैवतेऽपि जरसा विकृतिं आह । यद्वा हीति प्रसिद्धौ । पक्षे निर्जरे निर्जरशब्दे समस्तेऽपि समस्ततां प्राप्तेऽपि अजादौ अजादिविभक्तौ परतः जरसा 'जराया जरसन्यतरस्याम्’ इति विहितजरसादेशेन विकृतिं आह । समस्तेऽपीत्युक्तिः 'पदाङ्गाधिकारे तस्य च तदन्तस्य च' इति ज्ञापनाय । अत्र भगवदतिरिक्तदैवतजराक्रान्तत्वनिर्धारणाय शाब्दिकोक्तेः प्रमाणता ॥

 यथावा--

 प्राप्तानां त्वां चिह्नं प्रायेण तवेव भवति परमात्मन् । तत्पुरुषस्य हि परवल्लिङ्गं शाब्दिकमुनीशिताऽवादीत् ॥ २०७० ॥

 हे परमात्मन्! त्वां प्राप्तानां मुक्तानामित्यर्थः । ते तव चिह्नं चतुर्भुजत्वादि लिङ्गं प्रायेण भवति । प्रायेणेत्यनेन जगत्कारणत्व

 ALANKARA VI.
6*