पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/५५

पुटमेतत् सुपुष्टितम्
47
शब्दप्रमाणसरः (११५)

नाम । नित्यमसिजिति हि सूत्रं, हिशब्दोऽवधारणे । ‘नित्यमसिच् प्रजामेधयोः’ इति सूत्रमेवेत्यर्थः । नालं किं न पर्याप्तं किम् । अनेनैव निर्वाहे किं श्रुतिपर्यन्तानुधावनेनेति भावः । उक्तसूत्रेण दुरित्युपसर्गपूर्वकस्य मेधाशब्दस्य बहुव्रीहौ असिति समासान्तप्रत्ययस्य विहितत्वादिति वस्तुस्थितिः । अत्रापि असन्तमिति श्लेषभित्तिकाभेदाध्यवसायानुप्राणितं शब्दस्मृतिरूपप्रमाणं श्रुतिप्रमाणेन सह उक्तार्थस्थापनायोपात्तम् ॥

 यथावा--

 येन त्वं सर्वविदसि तस्मिन् बोधेऽस्ति सुमहती शक्तिः । माऽस्तु गुणेऽन्यत्र गुणो भगवन् बोधे तु सोऽस्ति शब्दनयात् ॥ २०७३ ॥

 भगवान् ज्ञानशक्त्यादिपरिपूर्णः तस्य संबुद्धिः हे भगवन् येन बोधगुणेन षाड्गुण्यप्रथमभूतेन त्वं सर्ववित् ‘यस्सर्वज्ञस्सर्ववित्’ इत्युक्तरीत्या सर्वज्ञः असि नित्यासंकुचितबोधवत्त्वादेव हि तव सर्वज्ञत्वमिति भावः । तस्मिन् बोधे ज्ञाने सर्वसाक्षात्काररूपे सुमहती शक्तिः षाड्गुण्यान्तःपातिगुणविशेषः । सा च यदन्यैरशक्यत्वादघटितमिव भाति तद्धटनसामर्थ्यरूपा । सर्वज्ञत्वनिर्वहणसामर्थ्यमिति तु तत्त्वम् । अस्ति विद्यते । ‘पराऽस्य शक्तिः’ इत्युक्तरीत्या सर्वशक्तेस्तवापि सर्ववित्त्वस्यानेन निष्पादितत्वादस्मिन् बोधे त्वत्तोऽपि महती शक्तिरस्तीति भावः । नन्वियमुक्तिः कथं घटतां गुणे गुणस्यानङ्गीकारात् । गुणौ हि बोधशक्ती उभे अपीत्यत आह-- माऽस्त्विति । अन्यत्र बोधादन्यस्मिन् गुणे गुणान्तरं मास्तु अस्तु वा मा वेति भावः । बोधे तु बोधरूपे गुणे तु स गुणः उक्तशक्तिरूपः अस्ति । एवं