पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/५७

पुटमेतत् सुपुष्टितम्
49
शब्दप्रमाणसरः (११५)

स्वोक्तार्थे शाब्दिकपरिभाषां प्रमाणयति शाब्दिकेति । शाब्दिकमुनिः पतञ्जलिः परान्नित्यादप्यन्तरङ्गमधिकबलमाह । ‘परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः’ इति परिभाषणादिति भावः ॥

 यथावा--

 कृपया तवाच्युताखिलकर्म विनाशोन्मुखं ततोऽहमघम् । तद्वशगोऽपि न कुर्यामकृतव्यूहा हि पाणिनीयास्स्युः ॥ २०७६ ॥

 हे अच्युत! तव कृपया मम अखिलं कर्म विनाशोन्मुखं, ततः कारणात् तद्वशगोऽपि कर्मवश्योऽपि अहं अघं उत्तराघं न कुर्याम् । हि यस्मात् पाणिनीयाः अकृतव्यूहाः 'अकृतव्यूहाः पाणिनीयाः’ इति परिभाषितत्वादिति भावः । ‘निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्ति’ इति परिभाषार्थः । अत्र विनाशोन्मुखकर्मानुरोधेन तत्प्रयुक्तोत्तराघस्याकरणे पाणिनीयपरिभाषायाः प्रमाणीकरणात्कवेः पाणिनीयताऽपि प्रकटिता ॥

 यथावा--

 येषां त्वयाऽनुबन्धस्तेषां भगवन् कथं स्वसारूप्यं स्यात् । यदिह वदन्ति पदज्ञा न ह्यनुबन्धेन कृतमसारूप्यमिति ॥ २०७७ ॥

 हे भगवन्! येषां जनानां त्वया सह अनुबन्धः संबन्धः भवति भागवतत्वं भवतीत्यर्थः । यद्वा निरवशेषाविद्यानिवृत्तिपूर्वकं परमे व्योम्नि संश्लेषः भवतीत्यर्थः । तेषां जनानां असारूप्यं त्वदसरूपता कथंनु स्यात् शेषत्वेन त्वया परिगृहीतानां त्वामेव ध्यायतां त्वत्सारूप्यं चतुर्भुजत्वादिकं स्यादेव । यथा--