पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/५९

पुटमेतत् सुपुष्टितम्
51
शब्दप्रमाणसरः (११५)

 इत्याद्युक्तारीत्या भगवतो नारायणस्य देवतान्तरतुल्यकक्ष्यतावर्णनपरजननिन्दापरेण अनभिमतार्थे प्रमाणीकृतेति वैलक्षण्यम् ॥

 यथावा--

 तद्विष्णोः पदमव्ययमाम्नातमनव्ययं स्वराद्यं तु । एवं सति पाणिनिना स्वरादिपदमव्ययं कथमभाणि ॥ २०७९ ॥

 तत् विष्णोः पदं 'तद्विष्णोः परमं पदम्’ इत्याम्नातं स्थानं अव्ययं अनश्वरं आम्नातं ‘तदक्षरे परमे व्योमन्' इत्यादिश्रुत्या प्रतिपादितम् । स्वराद्यं स्वर्गादिकं पदं स्थानं तु अव्ययं न भवतीत्यनव्ययं नश्वरं आम्नातम् । एवं सति एवं स्थिते पाणिनिना स्वरादि स्वर्गादिकं पदं स्थानं, पक्षे स्वरादिगणपठितं पदं अव्ययं अनश्वरं अव्ययसंज्ञकं च कथमभाणि ‘स्वरादि निपातमव्ययम्’ इति सूत्रेणेति भावः ॥

 यथावा--

 स्वामिन्नैश्वर्ये तव केन निपातः क्ववाऽपि किं दृष्टः । एवं स्थितेऽस्य पाणिनिराह निपातं कथं न्विति विचिन्ता ॥ २०८० ॥

 हे स्वामिन् हे सर्वेश्वर! ऐश्वर्ये जगदीश्वरत्वे विषये तव ‘एष सर्वेश्वर एष भूताधिपतिः' इति श्रुतपारमैश्वर्यस्य तव निपातः भ्रंशः केन पुरुषेण क्व वाऽपि किं दृष्टः न दृष्ट एवेत्यर्थः । एवं स्थिते वस्तुस्वरूपे एवमवस्थिते पाणिनिः अस्य एवंविधैश्वर्यवतस्तवेत्यर्थः । पक्षे अस्य स्वामिन्निति शब्दस्येत्यर्थः । निपातं भ्रंशं, अन्यत्र ऐश्वर्यरूपेऽर्थे लक्षणाभावे शब्दसाधुत्वाय