पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/६१

पुटमेतत् सुपुष्टितम्
53
शब्दप्रमाणसरः (११५)

 हे फणीन्द्रगिरिनेतः ! सकलानां नयानां मीमांसान्यायानां विषयः यो निगमः वेदः तस्य उद्धरणे उद्धारे आदरजुषि ते तव मात्स्ये मत्स्यसंबन्धिनि रूपे अवतारे शब्दविदः वैयाकरणाः नयलोपं कथं वदान्ति । सकलनयविषयभूतवेदोद्धरणालंकर्मीणे अवतारे नयलोपोक्तेरसंगतत्वादिति भावः । मात्स्ये रूपे मात्स्य इत्याकारके अण्णन्ते शब्दरूपे नयलोपं यलोपाभावं ‘सूर्यतिष्यागत्स्यमत्स्यानां य उपधायाः’ इति विहितयकारलोपस्य ‘मत्स्यस्य ङ्याम्' इति नियमितत्वेन यलोपाप्रसक्तेरिति परिहारः । यद्वा फणीन्द्रगिरीति भिन्नं पदम् । हे नेतः स्वामिन्! फणीन्द्रगिरि पतञ्जलिभाष्य इत्यर्थोप्युपस्कार्यः । तदा सकलनयविषयनिगमोद्धरणादरजुषीत्यस्य उक्त एवार्थः । व्याकरणभाष्यस्य वेदशब्दानुशासनार्थं प्रवृत्तत्वादिति भावः । अत्र स्वविवक्षितार्थप्रत्यनीकत्वं शब्दविद्वाक्यस्य श्लेषेण परिकल्प्य तदधिक्षेपाय तदुक्तेः प्रमाणतया उपन्यासः । एवमग्रेऽप्यूह्यम् ॥

 यथावा--

 विश्वंभरासहोक्तौ विश्वंभर एव शेषतां धत्ते । सैवास्य शेषभूतेत्युक्तौ संदेग्धि केवलपदज्ञः ॥ २०८३

 विश्वंभरायाः भूदेव्याः सहोक्तौ सहसंलापावसरे विश्वंभरः भगवानेव शेषतां तत्पारार्थ्यं धत्ते । पक्षे विश्वंभराशब्देन सहोक्तौ सहवचने विश्वंभर एव शेषतां धत्ते विश्वंभरशब्द एक एवावशिष्यते । स्त्रीपुंसलक्षणमात्रविशेषसद्भावेन ‘पुमान् स्त्रिया’ इत्यनेन पुंस एकस्यैव शेषताविधानादिति भावः । सैव विश्वंभरा भूरेव अस्य शेषभूतेत्युकौ ‘तथा भूमिश्च नीला च शेषभूते मते मम’ इति भगवदुक्तौ, पक्षे विश्वंभराशब्द एव अस्य विश्वंभरशब्दस्य शेषभूता अवशिष्टा इत्युक्तौ केव