पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/६४

पुटमेतत् सुपुष्टितम्
56
अलंकारमणिहारे

भगवन् । नाहं ब्रवीमि मिथ्या छन्दोभिज्ञाः किलैतदभिदधते ॥ २०८६ ॥

 हे भगवन्! ते तव पादान्ते चरणाग्रे । अन्यत्र– पद्यचतुर्थांशचरमभागे सक्ताः संबद्धाः लघवो वा जातिगुणादिप्रयुक्तमहत्त्वहीना अपि । पक्षे-- ते इत्यस्य लघव इत्येतद्विशेषणता । ते लघवः ‘हस्वं लघु' इति सूत्रानुशिष्टा वर्णाः । गौरवं पूज्यत्वं । पक्षे-- वा इत्येतद्गौरवमित्यत्रान्वेति । वा गौरवं विकल्पेन गुरुवर्णत्वं दधति । यदाहुः-- 'सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च लः । वा पादान्तस्तु’ इति । अत्र स्वोक्तचमत्कृतिस्थापनाय उदाहृतच्छन्दश्शास्त्रज्ञवचनं प्रमाणतयोपात्तमिति विशेषः । छन्दोभिज्ञाः वेदज्ञा इत्यप्यर्थः प्रतीयते । तेन प्रामाण्यातिशयप्रतीतिः ॥

 यथावा--

 गुरवस्त्वद्भक्ताः किल ऋजवोऽन्ये लघव एव वक्रास्स्युः । एवं सति वक्रं गुरुमृजुं लघुं छान्दसा बत वदन्ति ॥ २०८७ ॥

 हे भगवन्नित्यनुषज्यते । त्वद्भक्ताः गुरवः पूज्याः ‘एवमष्टविधा भक्तिर्यस्मिन् म्लेच्छेऽपि वर्तते' । ‘स च पूज्यो यथा ह्यहम्’ इत्युक्तेः । ऋजवः करणत्रयसारूप्यशालिनः । अन्ये त्वदभक्ताः लघवः अल्पाः वक्राः कुटिलस्वभावाः स्युः । एवं स्थिते छान्दसाः छन्दश्शास्त्रवेत्तारः वैदिकाश्चेत्यप्युपस्कार्यम् । छान्दसा इत्येतत् ‘श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः । अनुवाकहता बुद्धिः' इत्युक्तरीत्या मन्दबुद्धिताद्योतनाय । गुरुं वक्रं लघुं ऋजुं च वदन्ति । बतेति विपरीतकथनश्रवणजनितखेदे । अत्र ‘असौ ग्वक्रो ज्ञेयोऽन्यो मात्रिको लृजुः’ इति छन्दश्शास्त्रविदां वचनस्य