पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/६७

पुटमेतत् सुपुष्टितम्
59
शब्दप्रमाणसरः (११५)

तत् न मिथ्या खलु अनयोरुक्तशब्दयोः नवर्णेनैव भेदो नान्यवर्णैरित्यर्थान्तरमपि चमत्कारि । अत्र भगवतो नीलतोयदनीलस्य हरिन्मणिहरिमण्युभयसादृश्यवर्णनाय तयोर्वर्णभेदाभाववर्णनरूपेऽभिमतेऽर्थे ‘कमलासंपदोः कृष्णहरितोर्नागसर्पयोः’ इत्यारभ्य ‘दानवासुरदैत्यानामैक्यमेवाभिसंहितम्’ इत्यालंकारिकोक्तिः प्रमाणभावं प्रापिता ॥

 एवं शास्त्रान्तरलौकिकवाक्यरूपाण्यपि शब्दप्रमाणान्युदाहार्याणि । ‘आचारश्चैव साधूनामात्मनस्तुष्टिरेव च' इति प्रमाणप्रतिपादिताचारात्मतुष्ट्योरपि मीमांसकोक्तधर्मप्रमाणयोर्वेदशब्दानुमापकतया शब्दप्रमाण एवान्तर्भावः ॥

 तत्राचारप्रमाणं यथा--

 सौरिस्स कथं पापो वारे यस्याचरन्ति तव तुष्ट्यै । व्रतममितमहिगिरीश्वर सदसच्च विभाव्यमिह सदाचारात् ॥ २०९१ ॥

 हे अहिगिरीश्वर! सः सौरिः शनिः कथं पापः । तस्य ज्यौतिषोक्तं पापत्वं न घटत इति भवः । तत्र हेतुमभिप्रयन्नाह--यस्येति । यस्य शनेः वारे तव तुष्ठ्यै अमितं व्रतं उपवासादिनियमं आचरन्ति सन्त इति शेषः । कथमाचारादेव तस्यापापत्वं निर्णेयमित्यत आह-- सदति । इह लोके सत् साधु असच्च असाधु वा सतां आचारादेव विभाव्यं निर्णेयं हि । स्ववारे सतां श्रीनिवासप्रीणनव्रताद्याचारदर्शनात्सौरेः पापत्ववाचोयुक्तिरयुक्तेति भावः । अत्र शनेरपापत्वनिर्णये तद्वारे व्रताचरणरूपस्सदाचारः प्रमाणतयोपन्यस्तः । ‘आचारो नाम शिष्टानामभिमतो दयादाक्षिण्यादियुको वृत्तिविशेषः' इति माधवीये ॥

 ALANKARA IV.
7*