हे विश्वात्मन्! इदं अत्रैव उदाहरिष्यमाणवचनस्थविश्वात्मशब्दप्रत्यभिज्ञापकम् । स इत्येतत् वेधःप्रभृतिषु सर्वेष्वप्यनुषञ्जनीयम् । सः लोकस्रष्टृतया प्रख्यातः वेधाः चतुर्मुखः, सः जगत्संहर्तृत्वेन प्रसिद्धः कृत्तिवासाः पिनाकी, सः अमराधीशत्वेन प्रथितः वृद्धश्रवाः इन्द्रश्च सान्ताः अन्तेन सह वर्तन्त इति तथोक्ताः । विनश्वरा इत्यर्थः । पक्षे उक्तास्सर्वेऽपि शब्दास्सकारान्ता इत्यर्थः । सः ‘अजरोऽमृतः । विजरो विमृत्युः । सत्यं ज्ञानमनन्तम्' इति श्रुतिशतख्यापितः त्वं नान्तः अनन्तः नशब्दपूर्वको बहुव्रीहिः । नित्य इत्यर्थः । पक्षे विश्वात्मन्निति शब्दो नकारान्त इत्यर्थः । अत्र मानं प्रमाणं युष्माकं ते च त्वं च यूयं तेषां ‘त्यदादीनां मिथस्सहोक्तौ यत्परं तच्छिष्यते’ इति परैकशेषः । समाख्या नामैव । अत्र--
ब्रह्मादिषु प्रलीनषु नष्टे लोके चराचरे । |
इति श्रीमन्महाभारतवचनं,
ब्रह्मा शम्भुस्तथाऽर्कश्च चन्द्रमाश्च शतक्रतुः । |
इति श्रीविष्णुधर्मोत्तरवचनं चार्थतः प्रत्यभिज्ञाप्यते । अत्र विवक्षितेऽर्थे समख्यायाः प्रमाणता ॥
यथावा--
नतनिवहेन क्रीतो नितरां चक्री समिद्धया