पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/७४

पुटमेतत् सुपुष्टितम्
66
अलंकारमणिहारे

भक्त्या । चक्रीति समाख्यैव क्रीतत्वममुष्य वदति सुस्पष्टम् ॥ २१०२ ॥

 चक्रीति समाख्या नामैव अमुष्य भगवतः क्रीतत्वं क्रयणकर्मत्वं, पक्षे क्रीत्याकारकवर्णेन इतत्वं युक्तत्वम् । अत्रापि स्वविवक्षिते क्रीतत्वरूपेऽर्थे शब्दार्थतादात्म्यमूलकश्लेषमहिम्ना समाख्यैव प्रमाणतां गमिता । अत्र ‘भक्तिक्रीतो जनार्दनः' इति प्रमणार्थोऽनुसंधेयः ॥

 यथावा--

 त्वत्पदविधुतो रविरिह खेऽटेष्वग्रेसरो भवन् भगवन् । व्यग्रोऽप्यभवन्नूनं समाख्ययैवावगम्यतेऽर्थोऽसौ ॥ २१०३ ॥

 हे भगवन्! रविः भानुः रविशब्दश्च । त्वत्पदेन तव चरणरुचेति यावत् विधुतः अतएव खेटेषु गर्ह्येषु ‘खेटगर्ह्याणकास्समाः’ इत्यमरः । गगनचारिषु ग्रहेष्विति तत्त्वम् । अग्रेसरः श्रेष्ठः अन्यत्र अग्रे आदौ सरः शब्दार्थतादात्म्यबलेन रेफविशिष्ट इत्यर्थः । भवन् सन् व्यग्रोऽपि व्याकुलोपि अभवत् । विः विवर्णः अग्रे प्रान्ते यस्य स तथाभूतश्च "अग्रं पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समूहे च प्रान्ते च स्यान्नपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्" इति मेदिनी । अभवत् । नूनमिति सम्भावनायाम् । अत्र तस्य समाख्ययैवायमर्थः अवगम्यते । उक्तरीत्या समाख्यया तादृशार्थलाभादिति भावः । अत्रापि स्वविक्षितेऽर्थे समाख्यैव श्लेषमहिम्ना प्रमाणीकृता ॥