पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/७५

पुटमेतत् सुपुष्टितम्
67
शब्दप्रमाणसरः (११५)

 यथावा--

 विधुरिह विभो भवन्मुखविप्रतिपन्नो धुतस्ततस्सख्यमगात् । अस्य समाख्यैव वदत्यमुमर्थं किंन्विहान्यमीमांसनतः ॥ २१०४ ॥

 हे विभो स्वामिन्! इह विधुः इन्दुः भवन्मुखेन भवन्मुखे वा विप्रतिपन्नः विप्रतिपत्तिं गतः विरोधं प्राप्त इत्यर्थः । अत एव ततः सार्वविभक्तिकस्तसिः तेन मुखेनेत्यर्थः । धुतः तिरस्कृत इति यावत् । तत इत्येतत् मध्यमणिन्यायेनोभयान्वयि । ततः तेन सह सख्यं सौहार्दं अगात् उत्कृष्टेनावधीरितस्य निकृष्टस्य कुशलमतेर्झडिति तदाश्रयणमेवोचितमिति भावः । अमुमर्थं उक्तमर्थं अस्य विधोः समाख्यैव वदति प्रकाशयति । इह अस्मिन्विषये अन्यमीमांसनतः किं विचारान्तरमनावश्यकमिति भावः । समाख्यापक्षे तु-- विधुः विधुशब्दः विभो अभवत् इति छेदः । मुखे प्रथमभागे विप्रतिपन्नः वि इत्याकारकाक्षरेणाश्रितः अभवत् आसीत् । ततः अनन्तरं धुतः सार्वविभक्तिकस्तसिः । धुवर्णेन सख्यं साहित्यमिति यावत् । अगात् प्रापत् । विधुशब्द एवंनिष्पन्न इत्यर्थः । अन्यत्पूर्ववत् ॥

 यथावा--

 आदौ स्वाराद्धश्श्रीधर मध्ये त्रासितोऽपि सुत्रामा । मानुगृहीतोऽन्तेऽभूदस्य समाख्यैव तमिममाहार्थम् ॥ २१०५ ॥

 हे श्रीधर! सुत्रामा इन्द्रः सुत्रामेति शब्दश्च । आदौ दुर्वासश्शापोपप्लवात्पूर्वं स्वः स्वर्गः राद्धं सिद्धं यस्य सः स्वा