पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/८०

पुटमेतत् सुपुष्टितम्
72
अलंकारमणिहारे

शब्दः शुकारापनयनपूर्वकं तत्रैव चकारन्यसनेन चण्डाल इति निष्पन्न इत्यर्थः । इतरथा उक्तरीत्या चण्डालत्वाप्राप्तौ अस्य शुण्डालस्य मातङ्गत्वं कथं नु मातङ्गशब्दाभिलपनीयत्वं न स्यादिति भावः । ‘मातङ्गश्श्वपचे गजे' इति मेदिनी । अत्र गजस्य मातङ्गत्वव्यवहारान्यथानुपपत्त्या चण्डालत्वं श्लेषमहिम्ना कल्प्यते ॥

 यथावा--

 हरिमुखरुचिपरिभूतो विधुरिति मन्येऽन्यथा विवर्णमुखः । अतिपाण्डुरुक्प्रतिपदं क्षयमपि जाड्यं कुतोऽयमुपयायात् ॥ २१११ ॥

 विधुः इन्दुः हरेः भगवतः मुखेन परिभूत इति मन्ये । अन्यथा एवं परिभवाभावे अयं विधुः अतिपाण्डुरुक् अतिमात्रपाण्डुरोगवान् ‘स्त्री रुग्रुजा' इत्यमरः । अतएव विवर्णमुखः निस्तेजस्कवदनः । पक्षे अतिविशददीप्तिः ‘स्युः प्रभा रुग्रुचिः’ इत्यमरः । वि इति वर्णो मुखे अग्रभागे यस्य स तथोक्त इत्यर्थः । क्षयं जाड्यं राजयक्ष्माख्यरोगमपि । पक्षे क्षयं कलापचयं ‘क्षयो रोगान्तरे वेश्मकल्पान्तापचयेषु च' इति मेदिनी । जाड्यं शैत्यमपीत्यर्थः । कुतः उपयायात् । अत्र विधोर्विवर्णमुखत्वाद्यन्यधानुपपत्त्या हरिमुखपरिभूतत्वं कल्प्यते । श्लेषोत्तम्भितता प्राग्वत् ॥

 यथावा--

 तव सौकुमार्यभूम्ना नवनीतं जननि खर्वितौन्नत्यम् । आद्यन्तनतमितरथा कुतो वनीगर्भगं तदेतत्स्यात् ॥ २११२ ॥