चेत् अत्र केचित्-- नालंकारान्तरं युक्तमभ्युपगन्तुं, प्रातिस्विकतत्तदलंकारतातिरेकेण संज्ञान्तरस्य विच्छित्तिविशेषस्य चाभावादित्याहुः । अन्ये तु-- नरसिंहन्यायेनालंकारान्तरमेव । न च संज्ञान्तरविच्छित्तिविशेषयोरभावः, असिद्धेः । संसृष्टिसंकरसंज्ञयोर्लौकिकालंकाराणां कनकमुक्ताप्रवाळहरिनीलमरकतादीनामन्योन्यविलक्षणशोभाधायकानां मेळनकृतशोभातिशयवदिहापि मेळने विच्छित्तिविशेषसद्भावस्य च सहृदयहृदयैकसाक्षिकत्वात् । अतो नरसिंहाकारेण मेळनमलंकारान्तरमेवेति । तदेतन्मतमवलम्ब्योक्तं ‘भात्यलंकारता पृथक्’ इति ॥
तिलतण्डुलसंसर्गरीत्या यत्रेतरेतरम् ।
संसृज्येरन्नलंकारास्सा संसृष्टिरितीर्यते ॥
तिलतण्डुलन्यायेन स्फुटावगम्यभेदालंकारमेळने संसृष्टिरित्यर्थः ॥
शब्दालंकारयोरर्थालंकृत्योश्च परस्परम् ।
उभयोरपि संसृष्टिरिति सा त्रिविधा मता ॥
तत्राद्या यथा--
कलिकलुषशबलितमतिक्षितिपतिसेवातिवाहितायुरहम् । अधुना तव मधुनाशन विधुनानि क्लमभरं चरितमधुना ॥ २१३२ ॥
अत्र शब्दालंकारयोर्वक्ष्यमाणयोरनुप्रासयमकयोः पूर्वोत्तरार्धगतयोरन्योन्यनिरपेक्षयोस्संसृष्टिः ॥
द्वितीया यथा--
वृषभूमिभृद्वतंसेन्दीवरमिन्दीवराप्तजैत्रमुखम् ।
श्रीवासनामधेयं तज्जगतां भागधेयमव्यान्नः ॥