पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/९४

पुटमेतत् सुपुष्टितम्
86
अलंकारमणिहारे

 अत्र परंपरितरूपकोपमाकैतवापह्नुतीनामितरेतरनिरपेक्षाणामर्थालंकाराणां संसृष्टिः ॥

 तृतीया यथा--

 पन्नगनगपावनवनराजीराजी तमालसालश्रीः । पापातुरमार्तं मां पापातु रमात्तमानसस्स पुमान् ॥

 पन्नगनगस्य पावनानि यानि वनानि तेषां राज्यां श्रेण्यां राजत इति तथोक्तः । तमालसालस्य श्रीरिव श्रीः यस्य स तथोक्तः । रमया श्रिया आत्तं वशीकृतं मानसं यस्य स तथोक्तः स पुमान् परमपुरुषः पापैः आतुरं मां पापातु भृशं पातु । यङ्लुक् । अत्र छेकानुप्रासवृत्त्यनुप्रासयमकानां शब्दालंकाराणां उपमापर्यायोक्तयोरर्थालंकारयोश्च संसृष्टिः ॥

 यथावा--

 शरणं तमेव रमया भजामहे हेमजाभयाऽऽश्लिष्टम् । त्वां विपदि महत्यामपि वदेम वा वामदेव शरणमिति ॥ २१३५ ॥

 हेमजा स्वर्णजन्या आभा प्रभा यस्यास्तथोक्तया हिरण्यवर्णयेत्यर्थः । रमया आश्लिष्टं तमेव श्रीमन्तं नारायणमेव शरणं भजामहे प्रपद्यामहे । हे वामदेव विरूपाक्ष! त्वां महत्यां विपद्यपि शरणमिति वदेम वा । न वदेमैवेत्यर्थः । शरणमित्युक्तेरपि संभावना न कार्या । किमुत शरणवरणकथेति भावः ‘महत्यापदि संप्राप्ते स्मर्तव्यो भगवान् हरिः' इत्युक्तरीत्या तं श्रियःपतिमेव भजामो न तु भवन्तंप्रति रक्षेति वचनमपि वा वदामः । ‘नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः' इत्यम्बरीषव्रतनिष्णाता वयमिति भावः । रमयाऽऽश्लिष्टमित्यनेन भग