पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
अलङ्कारसर्वस्वम्


विरोधसमाधिः। श्लेषस्य च सर्वालंकारापवादत्वाद्विरोधप्रतिभोत्पत्तिहेतुरयं श्लेषः । यत्र तु प्रस्तुताभिधेयपरत्वेऽपि वाक्यस्य श्लिष्टपदमहिम्ना वक्ष्य-

माणार्थनिष्ठमुपक्षेपापराभिधानं सूचकत्वं तत्र किं श्लेष उतशब्दशक्तिमू

लध्वनिरिति विचार्यते—तत्र न तावच्छ्लेषः। अर्थद्वयस्यान्वितत्वेनाभिधेय- तया वक्तुमनिष्ठेः । नापि ध्वनिः। उपक्षेप्यस्यार्थस्यासंबद्धत्वाभावात्तेन स- होपमानोपमेयत्वस्याविवक्षणात् । न चान्या गतिरस्ति तदत्र किं कर्तव्यम्। उच्यते—श्लेषस्योक्तनयेनाप्रवृत्तेर्ध्वनेरेवायं विषय इति निश्चयः । तथाहि शब्दशक्तिमूले ध्वनावर्थान्तरस्यासंबद्धत्वात्संबन्धार्थमौपम्यं कल्प्यते स च संबन्धः प्रकारान्तरेणौपम्यपरिहारेण यद्यप्युपपादयितुं शक्यः स्यात् त- त्कोऽयमभिनिवेशस्तत्र । उपमाध्वनौ वस्तुध्वनिरपि संबन्धान्तरेण तत्र स- मीचीनः स्यात् । अत एव


- * न्यथा हि निर्विषयो बाधः स्यात् । अतश्चोत्तरकालं तु विरोधसमाधिरिति भणितेरर्थम- जानानेनायमर्थोऽन्वेषणीयः । यदि हि बाधः प्रागष्युत्प्रेक्षायाः स्वाधिकारवशेन स्वरसत एवोल्लसेत्तदुक्तनीत्या उत्प्रेक्षोत्थानमेव न स्यादित्यबाधित एव विरोध उत्प्रेक्षाया नि-

  • मित्तमित्युक्तमुत्तरकालं विरोधसमाधिरिति । स च समाधिरत्र दिगाद्यर्थाधिगमादव-

} युध्यत इति विरोधस्य श्लेषोऽङ्गम् । तद्वशदेवास्योत्थानात् । तथा चात्रानयोः संकीर्ण- त्वमात्रमेव न पुनः संकरालंकारः । स तु यथा - ‘संज्जातपत्रप्रकराञ्चितानि समुद्वहन्ति स्फुटपाटलत्वम् । विकस्वराण्यर्ककरप्रभावाद्दिनानि पद्मानि च वृद्धिमीयुः ॥’ अत्र श्ले-

  • षतुल्ययोगितयोरेकवाचकानुप्रवेशेन संकरः। प्राच्यानां मते पुनरेतत्प्रतिभोत्पत्तिहेतुः श्ले-

षोऽयमित्याह-श्लेषस्येत्यादि । तेनाद्यः पक्षः स्वाभिप्रायेण ग्रन्थकृतोक्तः । यद्वक्ष्य- त्येतच्छ्लोकविचार एव संकरालंकारे । अत्र प्रथमेऽर्धे विरोधप्रतिभोत्पत्तिहेवुः श्लेषः । दर्शनान्तरे तु विरोधश्लेषौ द्वावलंकाराविति । तदेवं स्वमताभिप्रायेणास्यालंकारान्तरव- दन्यालंकारैः सह बाध्यबाधकभावं संकीर्णत्वं च प्रकाश्य शब्दशक्त्युद्भवाद्वनेर्विशेषं प्र- तिपादयति--यत्र त्वित्यादिना । असंबद्धत्वाभावादिति उपक्षेप्यस्यार्थस्य वर्णनीय- त्वात् । अन्येति लेपध्वनिव्यतिरिक्ता । उक्तनये नेति अर्थद्वयस्यान्वितत्वेनाभिधेयतया वक्तुमनिष्टेरित्यनेन । संबन्धार्थमिति संगत्यर्थम् । यथा-‘अतन्द्रचन्द्राभरणा समुद्दीपित- मन्मथा । तारकातरला श्यामा सानन्दं न करोति कम् ’ अत्र प्रकृताप्रकृतयोरसं


१. ‘विरोधि' क. २. ‘उपेक्षैव परा' ख. ३. ‘तत्र' स्ख. ४. ‘नयेनात्राप्रवृत्तेः’ ख. ५. ‘संबन्धत्वात्संबन्धेनार्थ ख.


१. ‘स्वविकार’ ख. २. पद्मपक्षे ‘सत्-जात-पत्र’ इति, दिनपक्षे सण-आतपत्र'इति च्छेदः