पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
काव्यमाला ।


'धन्याः खलु वने वाताः कह्वारस्पर्शशीतलाः ।
राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ।

अत्र वाता धन्या इत्यप्रस्तुतादर्थादहमधन्य इति वैधर्म्येण प्रस्तुतोऽर्थः प्रतीयते । वाच्यस्य संभव उक्तान्येवोदाहरणानि । असंभवे यथा

‘कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं
वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते ।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न च्छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥

अत्राचेतनेन सह प्रश्नोत्तरिका नोपपन्नेति वाच्यस्यासंभव एव । प्र- स्तुतं प्रति तात्पर्यात्प्रमुख एव तदध्यारोपेण प्रतीतिरिति युज्यत एवैतत् । उभयरूपत्वे यथा--

‘अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।
कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ।

अत्र वाच्येऽर्थे कण्टकानां भङ्गुरीकरणे हेतुत्वं संभवि च्छिद्राणां त्व- संभवीत्युभयरूपत्वम् । प्रस्तुतस्य तात्पर्येण प्रतीतेस्तदध्यारोपात्तत्र संगत- मेवैतदिति नासमीचीनं किचित् । एतदेव च श्लेषगर्भायामस्यामुदाह-


न्तरालिखितमिति ग्रन्थस्यासंगतत्वम्। बहूनि पुनरुदाहरणानि सारूप्यहेतुकस्य भेदस्य लक्ष्ये = प्राचुर्यदर्शनार्थम् । एवं वाच्यस्य संभवे उक्तान्येवोदाहरणानीत्यत्राप्ययमेवाभिप्रायो योज्यः। . अतश्च ‘परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारो- ऽप्यभिमतः । न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोदोषोऽसौ न पुनरगुणाया मरुभुवः ॥' तथा-पातः पूष्णो भवति महते नोपतापाय यस्मात्कालेनास्तं । क इव न गता । यान्ति यास्यन्ति चान्ये । एतावतु व्यथयति यदालोकयात्यैस्तमोभिस्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोऽवकाशः ॥' तथा—‘पथि निपतितां शून्ये लब्ध्वा निराधरणाननां ननु दधि- घटी गर्वोभद्भः समुद्धरकंधरः । निजसमुचितास्तास्तावेष्टा विकारशताकुंलो यदि न कुरुते काणः काकः कदा नु करिष्यति ॥ इत्युदाहरणान्यत्र मध्ये लेखितव्यानि येन ग्रन्थस्य से संगतत्वं स्यात् । अत्र च सारूप्यं साधर्म्ये वाच्यसंभवश्च स्फुट एव । तदध्यारोपेणेति प्र-


१. ‘शाहोटकं क. २. प्रश्नोत्तरता’ ख.


१. “अवनिपतितां’ स्व. २. ‘कुला' ख.