पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
अलङ्कारसर्वस्वम्


‘अहो हि मे बह्वपराधमायुषा यदप्रियं वाच्यमिदं मयेदृशम् ।
त एव धन्याः सुहृदां पराभवं जगत्यदष्टैव हि ये क्षयं गताः ।


अत्रायुःकर्तृकापराद्धत्वाक्षिप्तस्याधन्यवस्यायुर्विरुद्धक्षयगतिप्रयुक्तं ध- न्यत्वं विरुद्धं सामान्यरूपतया समर्थकत्वेनोक्तम् । कार्यकारणतायां वै-

धर्म्येणोदाहृतम् । हिशब्दाभिहितत्वानभिहितत्वादिभेदाः स्वयमेव बो-

द्धव्याः । चारुत्वातिशयाभावान्नेह प्रदर्शिताः।

एवमप्रस्तुतप्रशंसानुषङ्गयातमर्थान्तरमुक्त्वा गम्यमानप्रस्तावागतं पर्या योक्तमुच्यते। -

गम्यस्यापि भृङ्गयन्तरेणाभिधानं पर्यायोक्तम् ।

. यदेव गम्यत्वे तस्यैवाभिधाने पर्यायोक्तम् । गम्यस्य सतः कथमभि- धानमिति चेत्, गम्यापेक्षया प्रकारान्तरेणाभिधानस्याभावात् । नहि तस्यैव

तदैव तयैव विच्छित्त्या गम्यत्वं वाच्यत्वं च संभवति । अतः कार्यमुखद्वा

रेणाभिधानम् । कार्यादेरपि तत्र प्रस्तुतत्वेन वर्णनार्हत्वात् । अत एवाप्र- स्तुतप्रशंसातो भेदः। एतच्च वितत्याप्रस्तुतप्रशंसाप्रस्तावे निर्णीतमिति तत

एवावधार्यम् । उदाहरणम्--

ति-एवमित्यादिना । तदेवाह-गम्यस्यापीत्यादि । ननु कथमेकस्यैवैकस्मि- न्काले गम्यत्वं वाच्यत्वं च संभवतीत्याह--गम्यस्यैवेत्यादि । प्रकारान्तरेणेति का- | र्यादिद्वारेण । अत इति । एकस्यैवैकस्मिन्काले गम्यत्ववाच्यत्वासंभवात् । कार्यादिद्वारे णेत्यादिशब्दः प्रकारे । अभिधीयमानं हि कार्यं तदविनाभावित्वात्स्वसिद्धये कारणमाक्षि- पतीति गम्यमपि तद्वाच्यायमानमिति यदेव गम्यते तस्यैव भङ्ग्यन्तरेणाभिधानम् । अतश्च ‘स्वभ्यस्तदुर्नयजयस्तनयस्तदीयः क्ष्मामाररक्ष जयवाहननामधेयः । दुर्वारवैरिवरवीरविला- सिनीनां स्वप्नावशेषमकरोत्प्रियदर्शनं यः ॥’ इत्यादावलंकारप्रकारत्वं न वाच्यम् । बहुधा-

  1. जयत् इति हि क्रियमाणे 'गतोऽस्तमर्को भातीन्दुःइत्यादिवदेतदकाव्यमेव स्यात् । न च

दोषाभावमात्रमलंकारत्वमिति बहुशः प्रागुक्तं यत्तु स्वप्नावशेषप्रियदर्शनात्मकं कार्यरूपेणा- र्थेन स्वसिद्ध्यर्थे कारणरूपस्तद्वध आक्षिप्यते तदितरप्रकारान्तरं पृथग्वक्तुं न युक्तमिति नि र्बिजैव पर्यायोक्तान्तरवाचोयुक्तिः । अत एवेति । द्वयोरपि कार्यकारणयोः प्रस्तुतत्वात् ।


१. हिशब्दाभिहितानाभिहितादि’ क. २. ‘पर्यायान्तरेण' ख. ३. ‘वाच्यत्वं गम्यत्वं ’ ख. ४. ‘कार्याभिमुखेन क. ५. ‘तथा-‘क.


१. ‘गम्यस्य' क. २. ‘इत्यादावेव तदलंकारक. ३ 'मात्रत्वे’ ख. ४. ‘तदितरप्र कारान्तः पातित्वाभृथग्वक्तुं क.