पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
काव्यमाला ।


अङ्गलेखामकाश्मीरसमालम्भनपिञ्जराम् ।
अनलक्तकताम्राभामोष्ठलेखां च बिभ्रतीम् ।


अत्र सहजत्वं निमित्तं गम्यमानम् । असंभृतं मण्डनमिति, कामस्य पु- ष्पव्यतिरिक्तमस्त्रमिति च । अत्र विवदन्ते--इयमेव विभावनेति केचित् । संभरणस्य पुष्पाणां च मण्डनमस्त्रं प्रत्यकारणवाद्वान्त(?)मेतत् । एकगु- णहानौ विशेषोक्तिरित्यन्ये । रूपकमेवाधिरोपितवैशिष्टयमिति त्वपरे । आरोप्यमाणस्य प्रकृते संभवात्परिणाम इत्यद्यतनाः ।

विभावनां लक्षयित्वा तद्विपर्ययस्वरूपां विशेषोक्तिं लक्षयति-

कारणसामग्र्ये कार्यानुत्पत्तिर्विशेषोक्तिः ।

इह समग्राणि कारणानि नियमेन कार्यमुत्पादयन्तीति प्रसिद्धम् । अ- न्यथा समग्रत्वस्यैवाभावप्रसङ्गात् ।

यत्तु सत्यपि सामर्ग्ये न जनयन्ति कार्यं सा कंचिद्विशेषमभिव्यङ्क्तुं प्रयु-


एव विभावना व्याख्येया न पुनरन्यैर्यथोक्तमित्याह-असंभृतमित्यादि । केचिदिति वि- वदन्त इति संबन्धः । अकारणत्वादिति । संभरणादीह मण्डनादेः स्वरूपम् । यद्येवं तर्ह्यत्रान्यः कोऽलंकार’ इत्याशङ्कथाह-एकेत्यादि । अन्य इति वामनीयाः । अपर इत्यौद्भटाः । तृतीयस्तु पक्ष न ग्राह्यः । लेखकपरिकल्पितत्वात् । तथाह्यारोप्यमाणस्य प्रकृते संभव इति न परिणामलक्षणम् । आरोप्यमाणस्य प्रकृत उपयोग इति तस्य लक्षि- तत्वात् । संभवोपयोगयोश्च नैकत्वम् । भिन्नत्वात् । ग्रन्थकृतापि साहित्यमीमांसायामेत- च्छ्लोकविवृतौ पक्षद्वयमेवोक्तम् । लेखकैश्चास्य ग्रन्थस्य प्रतिपदमेव विपर्यासः कृतः । तथा चात्रैवासंभृतमित्यादिको ग्रन्थस्तदनुप्राणितत्वेनेत्यस्य पश्चादुपपन्नोऽपि गम्यमानमित्यस्य पश्चाल्लिखितः । एतच्च न तथा दूषणमित्यस्माभिर्यथास्थित एव ग्रन्थौ व्याख्यातः । त- द्विपर्ययेति । कारणसामग्र्ये कार्यानुत्पादात् । तामेवाह -कारणेत्यादि । समग्रा- णीति नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायादसमग्राणां पुनः कार्यजनकत्वं न स्यादिति भावः । अत एवाव्यभिचारायाह-नियमेनेति । अन्यथेति यदा कारणानि कार्य नोत्पादयन्ति । एवं नैकं किंचन जनकं सामग्री वै जनिकेति नीत्या समग्राणां का- रणानां कार्यजनकत्वं भवत्येवेति तात्पर्यार्थः । यदा त्वेतद्विपर्यय उपनिबध्यते तदा विशेषो- क्तिर्भवतीत्याह-यत्त्वित्यादि । अत्र च वस्तुतो निमित्तमस्तीति विरोधपरिहारः।


१. ‘संबन्धादिमण्डनादेःख. २. ‘नारोप्यमाणस्य’ ख.