पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
काव्यमाला ।

म्राज्यम् । रसादयस्तु जीवितभूता नालंकारत्वेन वाच्याः । अलंकाराणामु पस्कारकत्वाद्रसादीनां च प्राधान्येनोपस्कार्यत्वात् । तस्माद्व्यङ्ग्य एव वा क्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामाव- . र्जकः । व्यञ्जनव्यापारस्य सर्वेरनपह्नुतत्वात्तदाश्रयेण च पक्षान्तरस्याप्रति- ष्टानात् । यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गितया व्यञ्जन- स्यानुमानान्तर्भावमाख्यत् तद्वाच्यस्य प्रतीयमानेन सह तादात्म्यतदुत्पत्य-


वस्त्वलंकारयोर्यदलंकारपक्षनिक्षिप्तत्वमन्यैरुक्तं तत्तावदास्ताम्, काव्यात्मनो रसस्य पु नरलंकारत्वमत्यन्तमेवावाच्यमित्याह-रसादय इत्यादि । आदिग्रहणाद्भावतदाभा - सादीनां ग्रहणम् । न वाच्या इति । वक्तुमयुक्ता एवेत्यर्थः । अलंकार्यस्यालंकार- त्वानुपपत्तेः । तस्य चालंकारत्वकथनेऽत्यलंकार्यान्तरं प्रसज्यते । तेन विनालंकाराणा- मनुपपत्तेः । एतदेवोपसंहरति--तस्मादित्यादिना । व्यङ्ग्य इति रसादिरूपः । त - स्यैवोपक्रान्तत्वात् । वाक्यार्थीभूत इति । अवाक्यार्थीभूतस्तु रसादिरलंकारो- ऽपि स्यात् । यदुक्तम् -‘प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्न लंकारो रसादिरिति मे मतिः ॥' इति । एतच्च रसवदाद्यलंकारप्रस्ताव एव निर्णे- ष्यामः । इतिशब्दः प्रमेयपरिसमाप्तौ । एतदेव युक्तमित्याह--एष एवेत्यादि । सर्वेरिति । अवाक्यार्थविद्भिरसहृदयप्रायैरित्यर्थः । पक्षान्तरस्येति । तत्र तावद्वा- च्यवाचकमात्राश्रयिणामलंकाराणां मध्ये व्यङ्ग्यव्यञ्जकभावसमाश्रयेण व्यवस्थितत्वा- दस्यान्तर्भावो न युक्तः । यदुक्तम्- ‘व्यङ्ग्यव्यञ्जकसंबन्धनिबन्धनतया ध्वनेः । वा- : च्यवाचकचारुत्वहेत्वन्तःपतिता कुतः ॥’ इति । लक्षणायामप्यस्यान्तर्भावो न युक्तः । तदसद्भावेऽस्य सद्भावात्तत्सद्भावे चास्यासद्भावात् । यदुक्तम् -‘अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया’ इति । नाप्यस्यालक्षणीयत्वं युक्तम् । यत्रार्थः शब्दो वा तमर्थमुपसर्ज नीकृतस्वार्थौ । व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः।।' इति। तदित्थमेतद्विप्र- तिपतित्रयस्याप्रतिष्ठानमुपपादितम् । इदानीमन्योऽपि यः कश्चिद्विप्रतिप्रतिप्रकारः कैश्चि दुक्तः सोऽपि नोपपद्यत इत्याह -यत्वित्यादि। ध्वनिकारानन्तरभावी व्यक्तिविवेककार इति । तन्मतमिह पश्चान्निर्दिष्टम् । यद्यपि वक्रोक्तिजीवितहृदयदर्पणकारावपि ध्वनिका- रानन्तरभाविनावेव । तथापि तौ चिरन्तरमतानुयायिनावेवेति तन्मतं पूर्वमेवोद्दिष्टम् । अनेन पुनरेतत्स्वोपक्षमेवोक्तम् । अनुमानान्तर्भावमिति । अनुमानरूपत्वमेवेत्यर्थः । आख्यदिति । यदाह-‘वाच्यस्तदनुमितो वा यत्रार्थोऽर्थान्तरं प्रकाशयति । संव


१. ‘तद्भावे चास्य चासंभवात्’ क.