पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
काव्यमाला ।


चित्तत्प्रतिद्वन्द्विना तेनैवोपायविशेषेण यदन्यथा क्रियते स निष्पादित- वस्तुव्याहतिहेतुत्वाद्वयाघातः । यथा

‘दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुवे चारुलोचनाः ।'


अत्र दृष्टिलक्षणेनोपायेन स्मरस्य हरेण दाहविषयत्वं निष्पादितम् । मृगनयनाभिः पुनस्तेनैवोपायेन तस्य जीवनीयत्वं क्रियते । तच्च दाहवि- षयत्वस्य प्रतिपक्षभूतम् । तेन व्याघाताख्योऽयमलंकारः । सोऽपि व्यतिरेक- १ निमित्तत्वेनात्रोक्तः । विरूपाक्षस्य चारुलोचना इति व्यतिरेकगर्भावेव वाचकौ । जयिनीरिति व्यतिरेकोक्तिः । पूर्ववदिह प्रकरणं लक्षणम् ।


कारिणस्तद्वैलक्षण्यम् । अत एव ‘उत्पत्तिविनाशयोरेकपायवे व्याघात:’ इति न सूत्रणी- यम् । एवं हि व्याघातत्वमेव न स्यात्। ‘कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजब- लमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो व्र- जाति सुतरां दर्प राजंस्त एव तवाङ्कुशाः ॥’ इत्यत्र च कुलादयो यथान्येषां दर्पहेतवो न तथा तव । प्रत्युत विनयकारिण इत्येवंविधगुणविशिष्टेभ्यः पुरुषान्तरेभ्योऽस्य वैलक्षण्य- मात्रं विवक्षितम्। न तु कुलादिभिरुत्पादितोऽपि दर्पस्तव व्याहत इति येन व्याघातालंकारो भवति । अथात्र दर्पकारिणोऽपि कुलादेस्तद्विनाश इत्ययमलंकार इति चेत्, नैतत् । कु- लादीनां प्रकृतिभेदेन दर्पादर्पकारित्वस्य वास्तवत्वेनालंकारत्वात् । तत्रापि कुलादिभिस्तव दर्पस्य विनाश इत्यभ्युपगमेनायमलंकारः । निष्पादितवस्तुव्याहृतेरभवात्तान्निबन्धनत्वेन चास्योक्तत्वात् । ‘विण्णाणेण मअविसं विणिवट्टइ भिण्णकारणुप्पण्णम् । विण्णाणकारणं जं तं पुण भण को णिवट्टेेइ ’ इत्यत्रापि मदस्य विज्ञानतदन्यहेतुकत्वे वस्तुसंभवहेतुर्मदो विज्ञा- नेन निवर्त्यते तद्धेतुकः पुनः केनेत्यलंकारभाष्यकारोक्तस्तन्निवृत्तिहेतुप्ररोहात्मकत्वा- द्वितर्र्कालंकारो न व्याघातः । विज्ञानहेतुकाया मदनिष्पत्तेरेव प्ररोहात् । ‘गाढकान्तदश- नक्षतव्यथासंकटादरिवधूजनस्य यः। औष्ठविद्रुमदलान्यमोचयन्निर्दशन्युधि रुषा निजाधरम्॥’ । इत्यत्र चाधरव्यथानिर्मोचनात्मकविपरीतफलनिष्यत्यर्थं तनिर्दशनात्मा प्रयत्न उपनिबद्ध इति विचित्रमिति न व्याघातालंकारो वाच्यः । तेनैवेति । दृष्टिलक्षणेनैव न पुनरन्येने- त्यर्थः। तेनेति निष्पन्नस्य वस्तुनस्तेनैवोपायेन व्याह्रतत्वात् । तदेव विभजति--विरूपाक्ष- स्येत्यादिना । अनेनास्य व्यतिरेकं विनोत्थानमेव न स्यादिति सूचितम् । तथा हि येनकेनचिद्यत्किंचित्साधितं तदप्यन्येनान्यथाक्रियते तदा तस्य ततोऽन्यथाकरणानुपपत्त्या


१. ‘वाम' ख. २. ‘प्रतिविरूपपक्षभूतम्' क.


१. ‘वस्तुसंभविन्यन्यहेतुर्मद’ ख. २. ‘तद्वदन्येनान्यधी’ ख.