पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४७
अलङ्कारसर्वस्वम्


क्वचित्तु शुद्धमपि भवति । यथा

‘यत्रैता लहरी चलाचलदृशो व्यापारयन्ति ध्रुवं
यत्तत्रैव पतन्ति संततममी मर्मस्पृषो मार्गणाः।
तच्चक्रीकृतचापसञ्जितशरप्रेङखत्करः क्रोधनो
धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः ॥


अत्र योषितां भ्रूव्यापारेण मार्गणपतनं स्मरपुरोगामित्वेऽसाध्येऽनलंकृत- मेव साधनमिति शुद्धमनुमानम् । प्रौढोक्तिमात्रनिष्पन्नार्थनिष्ठत्वेन च वि- च्छित्तिविशेषाश्रयणाच्चारुत्वम् । अयमत्र पिण्डार्थः। इहास्ति प्रत्याय्यप्र- त्यायकभावः । अस्ति च समर्थ्यसमर्थकभावः ।

तत्राप्रतीतप्रत्यायने प्रत्याय्यप्रत्यायकभावः । प्रतीतप्रत्यायने तु सम- र्थ्यसमर्थकभावः । तत्र प्रत्याय्यप्रत्यायकभावेऽनुमानम् । समर्थ्यसमर्थक- भावे तु यत्र पदार्थों हेतुस्तत्र हेतुत्वेनोपादाने नागेन्द्रहस्तास्त्वचि कर्क-


मन्तरेणानुत्थानात् । ननु चास्यालंकारान्तरगभींकारमात्रमेव किं तर्कनुमानवैलक्षण्यनिमि- तम । उतान्यदपि किंचिदित्याशङ्कयाह-क्वचिदित्यादि । अनलंकृतमिति । शास- नधर्मादेः प्रौढोक्त्या वास्तवत्वेनैव विवक्षितत्वादतिशयोक्त्याद्यलंकारान्तरगर्भाकाराभावात्। अतश्चास्य कविकर्मैव वैलक्षण्यनिमित्तमिति भावः । तदाह-प्रौढोक्तीत्यादि । एवं च कविकर्माभावद्यत्र विच्छित्तिविशेषाश्रयणं न स्यात्तत्र नायमलंकारः। यथा-‘यो यकथा- प्रसङ्गे च्छिन्नच्छिन्नायतोष्णनिःश्वासः । स भवति तं प्रति रक्तस्त्वं च तथा दृश्यसे सुतनु ।’अत्र रक्तत्वं प्रति विशिष्टस्य निःश्वसितस्यार्थेऽपि हेतुत्वे वास्तवत्वाकविप्रतिभानिर्वर्तितत्वाभा- वान्नायमलंकारः । यथा—‘प्रजानां विनयादानाद्रक्षणाद्भरणादपि । स पिता पितरस्त्वासां केवलं जन्महेतवः ॥' अत्र विनयादानादिहेतूनां वास्तवत्वादनलंकारत्वम् । न पुनरत्र हेतोरार्थ- त्वाभावादनलंकारत्वमिति वाच्यम् ।कविकर्मण एवालंकारनिबन्धनत्वेनोक्तत्वात्। अर्थत्वस्य तदप्रयोजकत्वात् । न हि हेतोरार्थत्वेऽपि कविकर्मव्यतिरेकेणालंकारत्वं स्यात् । तच्छा- ब्देऽपि हेतो क्वचित्कविप्रतिभानिर्वर्तितत्वेनालंकारत्वाभ्युपगमे न कश्चिद्दोषः । ग्रन्थकृता पुनरेतच्चिरंतनमतानुरोधेनोक्तम् । तन्मतमेवाधिकृत्य ह्वयमत्रेत्यादिना विचारः प्रस्तुतः । तत्रेति द्वयनिर्धारणे। प्रतीतेति । बोद्धव्येन समर्थतया प्रमुख एवाधिगतस्येत्यर्थः ।


१. ‘शुद्धमेव’ क. २. ‘यथा’ इति ख-पुस्तके नास्ति.


१. ‘शासनधरादेः क.