पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
काव्यमाला ।


तुल्यबलविरोधो विकल्पः ।

विरुद्धयोस्तुल्यप्रमाणविशिष्टत्वात्तुल्यबलयोरेकत्र युगपत्प्राप्तौ विरुद्ध- त्वादेव यौगपद्यासंभवे विकल्पः । औपम्यगर्भत्वाच्चात्र चारुत्वम् । यथा-- ‘नमन्तु शिरांसि धनूंषि वा कर्णपूरीक्रियन्तामाज्ञा मौर्व्यो वा’ इत्यादि । अत्र प्रतिराजकार्ये नमने शिरसां धनुषां च तुल्यप्रमाणश्लिष्टत्वम् । संधिविग्रहौ चात्र क्रमेण तुल्यप्रमाणे । प्रतिराजविषयत्वेन स्पर्धया द्वयोरपि संभाव्यमानत्वात् । द्वौ चेमौ विरुद्धाविति तयोर्युगपत्प्रवृति प्राप्नुतश्चात्र युपत्प्रकारान्तरस्यानाशङ्कयत्वात् । ततश्च न्यायप्राप्तो विकल्पः ।

नमनकृतं च तयोः सादृश्यमित्यलंकारता । एवं कर्णपूरीक्रियन्तामित्यादौ योजनीयम् । औपम्यगर्भत्वाच्च क्वचिच्छ्लेषावलम्बेनाप्ययं दृश्यते ।


वार्तेत्यापतदर्थान्तरमनुपात्तम् । श्लेषेणेति । श्लेषमूलयातिशयोक्त्येत्यर्थः । तुल्येत्यादि । एतदेव व्याचष्टे-विरुद्धयोरित्यादिना । तुल्यबलत्वादेवैकापि बाधाभावान्नैकतरप्रहणम् । तच्च द्वयोरपि युगपत्प्राप्तिः । न च विरुद्धयोरेतद्यज्यते इत्यत्रैकस्यापि साधकबाधकप्रमाणाभावादनिश्चयादनियतैकतरावलम्बनेन पाक्षिकी प्राप्तिः । अत एव नियतोभयपक्षावलम्बी विकल्पः । ननु च ‘यवैर्व्रीहिभिर्वा यजेत’ इति वास्तवत्वाद्विकल्पादस्य को विशेष इत्याशङ्कयाह-औपस्येत्यादि । औपम्यं साधारणधर्मनिबन्धनमिति तस्याप्यत्र त्रैधम् । एवं च यत्रैवौपम्यगर्भत्वं तत्रैवायमलंकारो न त्वन्यथेति भावः । यथा—निन्दन्तु नीतिनिपुणा अथ वा स्तुवन्तु लक्ष्मीः परापततु गच्छतु वा यथेष्टम् । अचैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रचलयन्ति पदं न धीराः ॥’ अत्रौपम्यगर्भत्वाभावाद्विकल्पमात्रत्वम् । विकल्पवृत्तं चात्र दर्शयति--अत्रेत्यादिना । क्रमेणेति। शिरोनमने संधिर्धनुर्नमने विग्रहश्चेति । स्पर्धयेत्यनेन विरुद्धत्वमेवोद्वलितम् । द्वौ चेमाविति । संधिविग्रहौ । अनयोर्विरुद्धत्वादेतत्कार्ययोरपि शिरोधनुर्नमनयोर्विरुद्धत्वम् । तयोरिति । शिरोधनुर्नमनयोः । प्रकारान्तरस्येति । यत्र शिरसां धनुषां च युगपन्नमनं न संभवेत् । ततश्चेति । विरुद्धयोर्युगपत्प्रवृत्यसंभवान्न्यायप्राप्तत्वेनास्यानुन्मूल्यत्वमुक्तम् । अत एव चैतदभाववादिनामन्यायवादित्वमपि सूचितम् । अत्रौपम्यकृतमेवालंकारत्वमित्याह-नमनेत्यादि । तेनात्र नमनाख्यस्य समानधर्मस्यानुगामितयैक्यरूपेण निर्देशः । वस्तुप्रतिवस्तुभावस्तु यथा -‘स्रष्टुं विधातुरुचितं मुखमेव चञ्चद्भूकं नतभ्रू तव कान्तिविलोकितेषु । एणाङ्कबिम्बमथ वा विवलत्कलङ्कमेकं न यद्विहित एव जगत्प्रकाशः।. अत्र चञ्चद्विवलत्वयोः शुद्धसामान्यरूपत्वं भ्रूकलङ्कयोर्बिम्बप्रतिबिम्बभावः।