पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
काव्यमाला ।


अत्रामालिन्येन शोभनस्य कुलस्य मूर्त्र्यादिभिः शोभनैः समुच्चयः । एकैकं च दर्पहेतुतायोग्यं तस्पर्धया निबद्धम् । यथा

‘दुर्वाराः सरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं
गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् ।
स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोऽक्षमो
नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः ।


अत्र दुर्वारत्वेनाशोभनानां सरमार्गणानां तादृशैरेव प्रियतमादूरत्वादिभिः समुच्चयः । नववयःप्रभृतीनां च यद्यपि स्खतः शोमनत्वम्, तथापि विरहविषयेनात्राशोभनत्वं ज्ञेयम् । सदसतः शोभनाशोभनस्य तादृशेन सदसता समुच्चीयमानेन योगो यथा-

‘शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृति ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥


अत्र शशिनः स्वतः शोभनस्यापि दिवसधूसरवादशोभनत्वेन सदसतस्तादृशैरेव कामिनीप्रभृतिभिः समुच्चयः । नत्वत्र कश्चित्समुच्चीयमानः । शोमनः । अन्यस्त्वशोभन इति सदसद्योगो व्याख्येयः । ननु नृपाङ्गनगतः खल इत्यशोभनोऽन्ये त्वशोभना इति कथं समुच्चीयमानस्य सतस्तादृशेनासता योगः । नैतत् । ‘नृपाङ्गनगतः खलुः' इति प्रत्युत प्रक्रमभङ्गदुष्टमेव । न तु सौन्दर्यनिमित्तमित्युपेक्ष्यमेवैतत् ।


लनात्मकं सौकर्यं हरिदर्शनस्यापि सोपानारोहणपरिश्रमस्पर्धतया तत्कारित्वमात्रस्यैव विवक्षितत्वात् । अत एव ‘णवोवाच्छिण्णा’ इत्युक्तम् । शोभनैरिति । भद्रत्वादिति योगात् । ननु दूरनिर्वासितत्वादिना प्रियादीनां यद्यशोभनत्वं तत्कथं नववयःप्रभृतीनामपीत्याशङ्कयाह-नवेत्यादि । तादृशैरेवेति । सदसद्भिः। कामिन्यादीनां स्वतः शोभनानामपि गलितयौवनादरशोभनत्वात् । अन्यथा पुनरत्र सदसद्योगो व्याख्येय इत्याशङ्कयाह--नन्वित्यादि । तादृशेनेति । समुच्चीयमानेनेत्यर्थः । प्रक्रमभेदादिति । ।


१. स्वाकृतेः ख. २. ‘इत्युत्प्रेक्ष्यमेवैतत्’ क,