पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

! .

१५
अलंकारसर्वस्वम् ।

ध्वनिः संलक्ष्यक्रमव्यङ्गयः । शब्दार्थोभयशक्तिमूलो वस्तुध्वनिरलंकारध्व निश्चेति । तत्र रसादिध्वनिरलंकारमञ्जर्यां दर्शितः । काव्यस्य शृङ्गारप्र धानत्वात् । शिष्टस्तु यथावसरं तत्रैव विभक्तः । गुणीभूतव्यङ्गयो वाच्या ङ्गत्वादिभेदैर्यथासंभवं समासोक्त्यादौ दर्शितः । चित्रं तु शब्दार्थालंङ्का रस्भावतया बहुतरप्रभेदम् । तथा हि-

ध्वनिः । वस्तुध्वनिरलंकारध्वनिश्चेति । तत्रशब्दशक्तिमूलो वस्तुध्वनिर्यथा-‘निर्वा णवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुव क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥' अत्र कौरवाणां क्षतशरीरा दिकत्वं वस्तुरूपं शब्दशक्व्त्यैव प्रतीयते । स एवार्थशक्तिमूलो यथा -‘अरससिरोमणि धुत्ताणँ अग्गिमो पुत्ति घणसमिद्धिमओ । इ भणिएण ण अङ्गी पप्फुलविलोअणा जाआ ॥’ अत्रार्थशक्त्या ममैवोपभोग्योऽयमिति वस्तु व्यज्यते । स एवोभयशक्ति मूला यथा -‘ पैन्थिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले ग्गामे । उग्गअपओहरं पेक्खिऊण जइ वससि ता वससु ॥’ अत्र यद्युपभोगक्षमोऽसि तदा आस्स्वेति वस्तु वक्रौचित्यमाश्रित्य शब्दार्थशक्त्याभिव्यज्यत इत्युभयशक्तिमूलत्वम् । शब्दशक्तिमूलो ऽलंक्रारध्वनिर्यथा-‘उन्नतः प्रौल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥' अत्र शब्दशक्त्या मेघलक्षणमर्थीन्तरं प्रतीयते । प्रकृताप्रकृत योश्चार्थयोरसंबद्धाभिधायित्वं मा प्रसाङ्गीदिति तयोरौपम्यं कल्प्यत इत्यलंकारध्वनिः । स एवार्थशक्तिमूलो यथा -ता ताण सिरिसहोअरअणाहरणम्मि हिअअमेकरसम् । बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेन ॥’ अत्र कौस्तुभबिम्बाधरयोः केवलयैवा र्थशक्यौपम्यं गम्यत इत्यर्थशक्तिमूलोऽलंकारध्वनिः । उभयशक्तिमूलो यथा-‘जैण हिअअविदारणए धारासलिलुलिए ण रमइ तहा। तव दिद्वी चिउरभरे पिआण जह वैरिखग्गम्मि ॥’ अत्रोभयशक्त्या चिकुरभरखङ्गयोरौपम्यं गम्यते । इतिशब्दः प्रमेयपरि समाप्तौ । एवं ध्वनेः प्रभेदजातं प्रदश्र्य क्रमप्राप्तं गुणीभूतव्यङ्गघस्यान्यतो योजयति गुणीभूतेस्यादिना । दर्शित इति ध्वनिकारेण । यदाह-व्यङ्गस्य यत्र प्राधान्यं वाच्यमात्रानुयायिनः । समासोक्त्यादयस्तत्र वाच्यालंकृतयः स्फुटाः।' इति ।एवं गुणी


१. ‘अलसशिरोमणिधूर्तानामप्रिमः पुत्रि धनसमृद्धिमयः । इति भणितेन मताङ्गी प्रफुलविलोचना जाता ॥’ इति च्छाया. २. ‘पथिक नात्र स्रस्तरमस्ति मनाक प्रस्तर स्थले प्रामे । उद्रतपयोधरं प्रेक्ष्य यदि वससि तद्वस ॥’ इति च्छाया. ३. ‘तत्तेषां श्री सहोदररत्नाहरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥’ इति च्छाया. ४. ‘जनहृदयविदारणके धारासलिललुलिते न रमति तथा । तव दृष्टिश्चि कुरभरे प्रियाणां यथा वैरिखङ्गे ॥' इति च्छाया.