पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
काव्यमाला ।


भावस्तस्य यथावदन्यूनानतिरिक्तत्वेन वर्णनं स्वभावोक्तिरलंकारः । उक्तिवाचोयुक्तिप्रस्तावादिह लक्षणम् । भाविकरसवदलंकाराभ्यामस्य भेदो भाविकप्रसङ्गेन निर्णेष्यते । यथा

‘क्रेङ्कारो नखकोटिचञ्चूपुटकव्याघट्टनोट्टङ्कित
स्तन्व्याः कुन्तलकौतुकव्यतिकरे सीत्कारसीमन्तितः ।
पृष्टश्लिष्टदवामनस्तनभरोत्सेव्याङ्कपालीसुधा
सेकाकेकरलोचनस्य कृतिनः कर्णावतंसीभवेत् ॥


अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम् ।

अतीतानागतयोर्भूतभाविनोरर्थयोरलौकिकत्वेनात्यद्भूतत्वाद्यस्तसंबन्धर हितशब्दसंदर्भसमर्पितत्वाच्च प्रत्यक्षायमाणत्वं भाविकम् । कविगतो भाव आशयः श्रोतरि प्रतिबिम्बत्वेनास्तीति, भावो भावना वा पुनः पुनश्चेतसि


वेति । कवित्वमात्रगम्यत्वात् । तन्निर्मित एवेति । अन्येषां तथात्वेन वक्तुमशक्यत्वात् । तद्वस्तुगतस्यासाधारणस्य फलक्रियादेः संभवतः स्वभावस्य शब्देन प्रतिपादनमात्रत्वात्तन्निर्मित एवैत्युक्तम् । अन्यूनानतिरिक्तत्वेनेति । यथा वस्तुनि संभवतीत्यर्थः । अत एव सचेतसां वस्तुगतस्य सूक्ष्मसुभगस्य वस्तुनो वर्णनेन हृदयसंवादाच्च किमयं रसवदलंकारो वा न भवतीत्याशङ्कयाह--भाविकेत्यादि । तत्र निर्णेष्यमाणस्यैतद्भेदस्य ‘वस्तुनश्चित्तवृत्तेश्च संवादः स्फुटता प्रथा। स्वभावोक्ते रसवतो भाविकस्य च लक्षणम् ’ इत्ययं संक्षेपः । अतीतानागतयोरित्यादि । एतदेव व्याचष्टे-अतीतेत्यादि । अलौकिकत्वेनेत्यनेन सहृदयानां तत्रावधानार्हत्वमुक्तम् । व्यस्तेति । यद्यपि वाचामाकुलत्वं सर्वत्रैव वर्जनीयम् तथापि तत्तत्र वैषम्येनार्थाविशेषात्प्रतीतेर्विघ्नमात्रफलम् । इह तु तदाकुलत्वेनातीतानागतयोः प्रत्यक्षायमाणत्वमेव न स्यादिति प्राधान्येनैतदुक्तम् । एवमनेन हेतुद्वयेनास्यालंकारस्त्वमुक्तम् । इह हि केचिदर्थाः कविवचसि सुस्पष्टमधिरूढा वाच्यवाचकयो रामणीयकमित्युक्तम् । अत एवैकस्यापि रामणीयकहानौ नास्यालंकारत्वम् । इह हि केचिदर्थाः कविवचमि सुस्पष्टमधिरूढा अपि निजसौभाग्याभावात्तृणशर्करावत्सहृदयानामवज्ञास्पदतया नावधानार्हाः । केचिच्च सुभगा अपि दुर्भगशब्दोपारोहितया सहृदयानामनावर्जका एवेत्युभयमपीहावश्यमाश्रयणीयम् । यदाहुः-प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः । अत्यद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकम् ।' इति । वाशब्दः पक्षान्तरद्योतकः । ननु चाप्रत्यक्षाणां भूतभाविनां प्रत्यक्षेणोपनिबन्धा-


१. ‘प्रत्यक्षयमानत्वं’ क.