पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
काव्यमाला ।


एतन्मतद्वयेऽप्युदाहरणम् । वाक्यार्थीभूतोऽत्र करुणो रसः । अङ्गभूतस्तु विप्रलम्भशृङ्गारः । एवं रसान्तरेष्वप्युदाहार्यम् । प्रेयोऽलंकारादौ विशेषमनपेक्ष्योदाह्रियते । प्रेयोलंकारो यथा


च दृष्टान्तदार्शन्तिकयोर्न कश्चिद्विषम उपन्यासः । वक्तुश्चात्र सरलहृदयत्वेनैकत्र तात्पर्येच्छाभावान्नैकतरपक्षाश्रयणमिति न कश्चिदपि रसस्य प्राधान्यम् । नाप्येषां परस्परविरोधात्संधिरिति व्यभिचारिभावस्यैव प्राधान्यम् । एवं च निर्वेदादीनां गर्भदासवकदाचिदपि प्राधान्यं [न] भवतीत्यपर्यालोचिताभिधानम् । गर्भदासस्यापि कदाचिदन्ततो गर्भदासीं प्रत्यस्ति प्राधान्यम् । प्रधानाप्रधानभावस्यापेक्षिकत्वात् । ‘क्वचिदप्यपरस्याङ्गम्’ इति नीत्यैषामङ्गत्वे प्राधान्याभावादलंकारत्वम् । यथा-कचकुचचिबुकाग्रे पाणिषु व्यापृतेषु प्रथमजलधिपुत्रीसंगमेऽनङ्गधाम्नि । निबिडनिबिडनीवीग्रन्थिविस्रंसनेच्छोश्चतुरधिककराशा शार्ङ्गिणो वः पुनातु ।’ अत्र शृङ्गाररसस्याप्ररूढत्वाद्गुणीभावेन वाक्य तात्पर्यविषयत्वेनोपनिबन्धमप्यौत्सुक्यं शार्ङ्गिविषयां रतिं प्रत्यङ्गमिति प्रेयोऽलंकारः । ननु च यद्यपि परस्याङ्गत्वे सत्येषामलंकारत्वं तद्रसाङ्गभूतत्वादेषां सर्वत्रैव तत्त्वं स्यादिति चेत्, नैतत् । यस्मान्निमित्तान्तरेभ्यो लब्धसत्ताकस्याङ्गिभूतस्य वस्तुन उपस्काराधायकतयाङ्गतामुपगच्छतामेषामलंकारत्वमुपकार्योपस्कारकत्वनिबन्धनतयालंकार्यालंकरणभावस्योक्तत्वात् । रसादेः पुनः स्वरूपनिवृत्तये निर्वेदादयोऽङ्गतामुपयान्तीति तत्रैषां रसोपसर्जनीभूतत्वात्तद्वयञ्जनमात्रमेव फलम् । अत एव तत्रैव पूर्वोक्तनीत्या न ध्वनित्वम्, नाप्यलंकारत्वम् रसव्यक्तिव्यतिरेकप्रयोजनान्तरनिष्पादनत्वायोगात् । एवं निर्वेदादीनां रसव्यक्तौ । सहकारित्वम्, अङ्गित्वे ध्वनित्वम्, अङ्गत्वे चालंकारत्वमिति विषयविभागः । तस्मात् ‘निर्वेदादीनां सर्वदैवाङ्गभावात्प्रेयोऽलंकारस्तद्वयपेक्षो न वाच्यः । तस्मादेतेषां व्यङ्गयतायां ध्वनित्वं न प्राधान्यं क्वापि यस्माद्भजन्ते । एतेन भावप्रशमादयोऽपि व्यङ्ग्याः सदैव ध्वनितां प्रयान्ति । ध्वनित्वमिष्टं यदि तर्हि तेषु न लक्षणीयस्तु समाहितादिः ॥' इत्यादि यदन्यैरुक्तं तदुपेक्ष्यम् । एतन्मतद्वय इति । ध्वन्यभाववादिनां ध्वनिभाववादिनां च । । तत्र ध्वन्यभाववादिमते करुणापेक्षया रसवदलंकारः । श्रृगारापेक्षया तूद्दात्तम् । मतान्तरेण तु करुणाभिप्रायेणरसध्वनिः । श्रृङ्गारापेक्षया त्वयमलंकारः । अत्र यद्यपि राजविषयाया रतेरङ्गित्वात्करुणोऽपि तदङ्गमेव, तथापि तस्य श्रृङ्गारापेक्षयाङ्गित्वमाश्रित्यैतदुक्तम् । करुणश्च शृङ्गारोपस्कृतः प्रतीयत इति तस्यालंकारत्वम् । । यथा एवमिति। यथा मतद्वयमपि संगच्छत इत्यर्थः । तत्तु यथा—‘का त्वं रजतपटावगुण्ठितमुखी मुग्धे तवाहं । सखी किं शून्यौकसि केवला निवससि त्वामागतान्वेषितुम् । एतद्वक्रमुदञ्चयेति कथयन्त्यालोक्य कूर्च ततः पत्युः स्मेरमुखाम्बुजस्य तरुणी जाता विलक्षस्मिता ।॥’ अत्र वाक्यार्थीभूतः श्रृङ्गारःङ्गभूतस्तु हासः । एवमिति सामान्येनाप्युदाहरणव्याप्तिपरं


१. निबद्धमष्यौसुक्यम्’ ख. २. ‘इत्युक्तः क.